SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ प्रस्तावः। 11 १४ मासनिशासनस्य शसादौ लुग्वा २. १. १००. कौमुद्यामास्य शब्दस्यासनादेश उक्तः । यत्तु आसनशब्दस्यासन्नादेश इति काशिकायामुक्तं तत्प्रामादिकमिति च खण्डितम् । १५ वाकर्मणामणिकर्ता णौ २. २. ४. पाणिनीये नैतत् । अवि वक्षितकर्मस्थले पाचयति चैत्रेणेत्येव । एतन्मते तु पाचयति चैत्रमित्यपि । १६ कालाध्वभावदेशं वा कर्म चाकर्मणाम् २. २. २३. पाणिनीये ____मासमास्ते इत्येव । इह तु मासे आस्ते इत्यपि । १७ स्पृहेाप्यं वा २. २. २६. कर्मविषये एव विकल्पः । पाणि' नीये तु ईप्सितमात्रे संप्रदानत्वं प्रकर्षविवक्षायां तु परत्वात्कर्मत्वम् । १८ गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया २. २. ३३. येनतेनेति पाणिनीयादधिकम् । १९ व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् २. २. ५०. पाणिनीयाद धिकमेतत् । २० हितसुखाभ्याम् २. २. ६५. पाणिनीये सुखशब्दो नास्ति नित्या च चतुर्थी । २१ वा क्लीबे २. २. ९२. पाणिनीये अधिकरणवाचिनश्च २. ३. ६८. इति नित्यम् । २२ करललं कृपोऽकृपीटादिषु २. ३. ९९. अकृपीटादिष्विति पाणि नीये नास्ति । सिद्धिस्तूणादित्वाज्ञया । २३ नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् २. ४. ३९. भाष्याद्यनुक्तत्वादङ्गगात्रकण्ठग्रहणमप्रमाणमिति प्रामाणिका इति कौमुद्याम् । २४ मातुलाचार्योपाध्यायाद्वा २. ४. ६३ पाणिनीये या तु स्वयमे वाध्यापिका सा उपाध्यायी उपाध्याया वा । अत्र तु उपाध्याया इत्येव ॥ पाणिनीये आचार्यानी इत्येव । अत्र तु आचार्टी इत्यपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy