SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 10 प्रस्तावः। ___ अस्मिन्व्याकरणे पाणिनीयव्याकरणतो बहूनि भेदस्थलानि वर्तन्ते । तानि च प्रायो यथामति प्रदयन्ते । १ लदन्ताः समानाः १. १. ७. पाणिनीये दीर्घलकारो नास्ति । २ कसमासेऽध्यर्धः १. १. ४१. ३ अर्धपूर्वपदः पूरणः १. १. ४२. सूत्रद्वयं पाणिनीये नास्ति । ४ लत ऋल अलभ्यां वा १. २. ३. पाणिनीये दीर्घलकाराभावात् पक्षोदाहरणे लकार इत्यत्र ऋकार इत्येव भवति । ५ ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार् १. २. ७. पाणि नीये वत्सरशब्दो नास्ति। ६ अनाङ्माङो दीर्घाद्वा छः १. ३. २८. पाणिनीये तुगागमरिधा नात्पूर्वावयवत्वम् । इह तूत्तरावयवत्वम् । ७ प्लुताद्वा १. ३. २९. पाणिनीये प्लुताद्विधिर्नास्ति । ८ शिट्याद्यस्य द्वितीयो वा १. ३. ५९. ख्षीरम् । क्षीरम् ॥ अफ्सराः । अप्सराः ॥ अपदान्तेऽप्यत्रोदाहृतम् । पाणिनीये तु चयो द्वितीयाः शरि पुष्करसादेरिति पदान्त एवेति भाति । ९ भिस ऐस् १. १. २. अतिजरसैरित्युदाहृतं वृत्तिकृदनुसृतं किन्तु भाष्यविरुद्धम् । १० नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा १. ४. १०. अयग्रहण मधिकम् । पाणिनीये त्रयाः इत्येव । अत्र तु त्रये त्रयाः इति । ११ जरसो वा १. ४. ६०. पाणिनीये नैतत् । १२ नि वा १. ४. ८९. पाणिनीये नैतत् । किं तु कौमुद्यां नित्या त्परादपि नुमः प्रागतृन्निति दीर्घः । प्रतिपदोक्तत्वात् । स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । इति रूपद्वयं साधितम् । १३ यजसृजमृजराजभ्राजभ्रस्जत्रश्चपरिव्राजः शः षः २. १. ८७. पाणिनीये तु व्रश्वभ्रस्ज० ८. २. ३६. इत्यत्र छस्यापि षकार उक्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy