SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। गुणास्तावद्यशस्तावद्यावाचेत नो नरः । प्रार्थनायां पुनस्तेपि प्रणश्यन्ति हता इव ॥ २ ॥ पूर्वस्माच्च परस्माच्च समस्मादसमाद्गुणैः । उत्कृष्टो राजकाहत्ते सिमस्मै स्मैष विस्मयम् ॥ १४३ ॥ १४३. एष राजा सिमस्मै सर्वस्मै लोकार्य विस्मयमाश्चर्य दत्ते स्म । यत: पूर्वस्माञ्चैतदपेक्षया जन्मना प्रथमात्परमाच्च जन्मना पश्चिमाञ्च किं बहुना समस्मात्सर्वस्माद्राजकान्नृपौघादुत्कृष्ट उत्तमः । ननु तद्राजकं विगुणं भविष्यति तन्मध्ये चासौ केनाप्येकेन गुणेन युक्त उत्कृष्टो भविष्यति यथान्धेषु काणोपि भातीति निर्गुणत्वनिराकरणायाह । गुणैः शौर्यादिभिरसमादसाधारणात् ।। दक्षिणस्मादुत्तरस्मादपरस्मात्तथान्यतः । कृष्णायास्मायवरस्मायधरस्मिन्न को नतः ॥ १४४॥ १४४. दक्षिणस्मादुत्तरस्मादपरस्मात्पश्चिमात्तथान्यतः पूर्वस्माच्च देशादागत्यास्मै राज्ञेधरस्मिन्नधोदेशे पादयोः को न नतो यतः प्रजारक्षाप्रतापादिनावरस्मै कृष्णाय द्वितीयाय विष्णवे । कृष्णाय हि सर्वदेशेभ्य आगत्य जनः प्रणमति । एतेनास्य राज्ञः सर्वजगद्वशीकार उक्तः । दक्षिणस्मादित्यादौ कुसूलात्पचतीत्यादाविवोपात्तविषयेपादाने पञ्चमी ॥ परस्वायास्पृहयालुः स्वस्मायश्लाघनः सदा । दक्षिणाय द्विजस्वाय स्वस्मायिव ददावसौ ॥ १४५ ॥ १४५. असौ राजा दक्षिणाय प्रवीणाय द्विजस्खाय ब्राह्मणज्ञातये खस्मायिवात्मीयाय स्वजनायेव सदा गोधनादि ददौ । दाताप्यन्यायेन १ एफ याचति नो, २ सी यमा. ३ एफ् यतीति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy