SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ न्याश्रयमहाकाव्ये [मूलराजः] दातृष्वेकतमस्मादेकतरस्माच देस्रयोः । कतमस्मिन्सर्वतमे देशेस्मानाभ्यगायशः ॥ १४१ ॥ १४१. अस्मान्नृपात्सकाशात्सर्वतमेतिशयेन सर्वस्मिन्देशे कतमस्मिन्कस्मिन् यशो नाभ्यगान ययौ । सर्वशब्दोत्र तमप्यसंकुचितवृत्तिस्ततो जगत्रयेप्यस्य यशो विस्तीर्णमित्यर्थः । यतो दातृषु मध्य एकतमस्मादसाधारणात्तथा रूपातिशयेन दस्रयोरश्विनीकुमारयोर्मध्य एकतरस्मादन्यतरस्मात् । दानरूपातिशयेन हि प्रसरति दिशो दिशं यशो नरस्य । त्वस्माद्याच्ञापराविन्द्रोपेन्द्रौ दानैकशालिनः । नेमस्मायपि कल्पेते नास्य हेतुं गुणवतम् ॥ १४२ ॥ १४२. गुणत्वतं हेतुम् । त्वच्छब्दः समुच्चयार्थः । शौयौदार्यादिगुणसमूहेन हेतुनेन्द्रोपेन्द्रौ शक्रविष्णू अस्य राज्ञो नेमस्मायपि खण्डायाप्यर्थाद्गुणशकलायापि न कॅल्पेते नालं भवतः । यतो दानेनैकेनाद्वितीयेन न तु याच्या शालते शोभत इत्येवंशीलो यस्तस्य । प्रभूतगुणैरपीन्द्रोपेन्द्रौ दानैकशालिनोस्य गुणांशमात्रस्यापि तुल्यौ न भवत इत्यर्थः । यतस्त्वस्मादन्यस्माद्याच्यापरौ याचकौ । इन्द्रो हि बलिष्ठे बलिदैत्येप्रभवन् विष्णुं बलिंबन्धं ययाचे विष्णुश्च बलिं त्रिपदीमिति । याच्यायां च सर्वे गुणा भंसन्ते । उक्तं च । देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः । नश्यन्ति तत्क्षणादेव श्रीहीधीधृतिकीर्तयः ॥ १ ॥ १ ए दश्रयोः ।. २ बी कल्प्येते. १ सी स्मि य". एफ स्मिन्कतरस्मि'. २ बी शोदशय. 'शो नृपस्य. ४ बी कल्प्येते. ५ ए बी डी लिवधं य. सी ६षी चेति वि. ७ बी सी डी यां स. ३ सी डी लिवन्ध य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy