SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [है० १.४.६.] प्रथमः सर्गः । भास्कराय महाप्रतापित्वाद्वितीयाय रवये तथा विष्णुशक्रयोर्मध्येन्यतरस्मा एकतरस्मै प्रजारक्षापरमैश्वर्यादीनामुभयधर्माणां सद्भावाद्विष्णवे शक्राय वेत्यर्थः । तथा रुद्राणामन्यतमस्मै लीलाविलासित्वादिना अज १ एकपाद २ अहिर्बुध्न ३ विरूपाक्ष ४रैवत ५ हर ६ बहुरूप ७ व्यम्बक ८ सावित्र ९ जयन्त १० पिनाकि ११ नाम्नामेकादशरुद्राणां मध्येजाय यावपिनाकिने वेत्यर्थः । भास्करादिभ्यो हि देवतात्वान्नृपा अपि नमस्कारं कुर्वन्ति ॥ देवेभ्योन्यतमायास्मायितरस्मै फणीशिने । श्लाधित्वा सुधियः कुर्युः कतरस्मै पुनः स्तुतिम् ॥ १३९ ॥ १३९. अस्मै नृपाय श्लायित्वा नृपं श्लाघ्यं परं लोकं ज्ञाप्यं जानन्तं प्रयोज्य नृपं वर्णयित्वेति यावत्सुधियः कतरस्मै कस्मै राज्ञे पुनः स्तुति कुर्युः । यतः कीदृशाय । देवेभ्योन्यतमाय शक्तिरूपाद्यतिशयेन देवानां मध्य एकतरस्मै तथेतरस्मै फणीशिने भूभारधारित्वेन द्वितीयाय शेपाय । सुरशेषाहितुल्यत्वेन सर्वनृपोत्कृष्टत्वादस्य श्लाघायां कृतायामन्यस्य श्लाघां कर्तुं न कोपि वाञ्छतीत्यर्थः ॥ “निर्धारणे पञ्चम्यप्यन्ये" [ श्रीसिद्ध० व्या० बृ० ] इति तन्मतमाश्रित्य देवेभ्य इत्यत्र निर्धारणे पञ्चमी । कतरस्थायित्यत्र संप्रदाने चतुर्थी ॥ यतरस्मै ततरस्मै प्रार्थयित्रे ददावसौ । यतमस्मै ततमस्मै दोषकत्रै चुकोप च ॥ १४०॥ १४०. स्पष्टः । किं तु यतरस्मै ततरस्मै शत्रवे मित्राय च । यतमस्मै ततमस्मै मित्राय शत्रवे च । दोषकत्रैन्यायकारिणे ।। २ डी एफ पाद २ अ. ३ एफ पं च व. १ एफ न्यस्मा. ४ एफ् स्मै श. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy