SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८८ घ्याश्रयमहाकाव्ये [मूलराजः] विश्वस्मादत्यशेतासौ विश्वस्मायुपकारकः । किंसर्वस्मै परसर्वस्मै च यः कामदोभवत् ॥ १३६ ॥ १३६. यो विश्वस्मै हीनायोत्तमाय चोपकारको रक्षादानादिनोपकर्ता सन् किंसर्वस्मै कुत्सितसर्वस्मै हीनलोकाय परसर्वस्मै च प्रकृष्टसर्वस्मायुत्तमलोकाय च कामदो मनोरथपूरकोभूदसौ स मूलराजो विश्वस्मात्सर्वलोकादत्यशेतोत्कृष्टोभूत् ॥ तमस्तोभिभवः कालेप्यसर्वस्मिन्महोदयः । हीनतास्मादुभौ हेतू उभयस्मिन् रवौ विधौ ॥ १३७ ॥ १३७. उभौ हेतू "सर्वादेः सर्वाः" [२.२.११९] इति प्रथमाया द्वितीयाया वा द्विवचनम्। द्वाभ्यां कारणाभ्यामस्मान्नृपात्सकाशादुभयस्मिन् द्वितये हीनता न्यूनत्वमासीत् । कस्मिन्नुभयस्मिन्नित्याह । रवौ सूर्य विधौ चन्द्रे च । कौ हेतू इत्याह । तमस्तो राहोः सकाशादभिभवो ग्रहणलक्षणपराभः । अपिः समुच्चये । तथासर्वस्मिन्काले महोदयो न सर्वस्मिन्काले महान् जगत्प्रकाशक उदय: स्यात् । रवेर्दिन एव चन्द्रस्य च रात्रावेव महोदयात् । अस्य च राज्ञस्तमस्तोज्ञानोन्नाभिभवो राज्यलक्ष्मीप्रतापादीनां सदा वृद्ध्या सदा महोदयश्चेति ॥ अन्यस्मै भास्करायान्यतरस्मै विष्णुशक्रयोः । रुद्राणामन्यतमस्मै नमोस्मै चक्रिरे नृपाः ॥ १३८ ॥ १३८. नृपा अस्मै मूलराजाय नमो नमस्कारं चक्रिरे यतोन्यस्मै १ डी दतिशे . २ एफ् स्तोविभ. १ एफ र्वस्मै चोत्त. २ सी दभिशे . डी दतिशे'. ३ बी डी एफ णः पं. ४ सी डी वः स. ५ एफ नान्न परिभवो राजल'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy