________________
८७
[है० १.४.६.] प्रथमः सर्गः।
एषु । एषाम् । एभिः । एभ्यः । नयनयोः । इत्यत्र 'एबहुस्भोसि" [४] इत्येत् ॥ बह्विति किम् । अस्य । स्भोसीति किम् । गृहान् ॥ अते इत्येव । गुरुषु । पित्रोः॥
जनेन । अतिजरेण । सर्वस्य । प्रत्यासन्नजरस्य । इत्यत्र "टाङसोरिनस्यौ" [५] इतीनस्यादेशौ । अत इत्येव । अजरसा। दूरजरसः । अत्र परत्वान्नित्यत्वाच्च प्रागेव जरसादेशे कृतेकारान्तत्वाभावः । अन्ये तु प्रागेवेनादेशं संनिपातलक्षणस्यानित्यत्वाश्रयणात्पश्चाजरसादेशं चेच्छन्तः स्फुरजरसिन इत्यपि मन्यन्ते ॥ मोक्षाय । संग्रहात् । इत्यत्र "डेङस्योर्यातौ" [६] इति यादादेशौ ॥
सर्वस्मै प्रियकर्तास्मिन् सर्वस्मादुज्ज्वलो गुणैः ।
नृपः श्रीमूलराजोभूचौलुक्यकुलचन्द्रमाः ॥ १३५ ॥ १३५. अथात्र काव्ये वर्णनीयेषु चौलुक्येषु मध्ये प्रथमो यो राजात्र पुरेभूत्तमासर्गान्तमुपश्लोकयति ॥ मूले चौलुक्येष्वादावत्र पुरे राजा मूलराजो यद्वा मूले नक्षत्रे राजाँ चन्द्रो मूलराजस्तत्र जातत्वान्मूलराजः श्रिया युक्तो मूलराजः श्रीमूलराजो नाम नृपोभूत् । कीहक् । गुणैः परोपकरित्वादिभिः कृत्वा सर्वस्मात्समस्तलोकासकाशादुज्ज्वलोत एव सर्वस्मै प्रियकर्ता वाञ्छितकारी । अत एवं च चौलुक्यकुलचन्द्रमाः । चन्द्रमा अपि गुणैः कान्ततादिभिः सर्वस्मादुज्वलोत एव सर्वस्मै प्रियकर्ता । तथा श्रिय आवासत्वाच्छ्यिो नक्षत्रपतित्वान्मूलस्य मूलनक्षत्रस्य च राजा प्रभुः स्यादित्युक्तिः ॥
१ एफ भ्यः अनयोः. २ एफ °त एव किम् । गु.३ एफ °ध्ये यः प्र.४ सी डी एफ मो रा. ५ एफ मूलन. ६ बी सी डी °ले मूलन. ७ सी जा स्त. डीजा तत्र. ८ एफ °नामा नृ. ९ एफ णैश्च प. १० एफ समस्तलोकसका. ११ सी डी एफ व चौ. १२ एफ न्तत्वादि. १३ एफ लन',
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org