SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [मूलराजः] भक्त्या गुरुषु पित्रोश्च मोक्षाय ज्ञानसंग्रहात् । जनेनाजरसाप्यत्र स्फुरज्जरसिन स्थितम् ॥ १३३ ॥ १३३. अत्र पुरे जनेनाजरसापि जरावर्जितेनापि तरुणेनापि स्फुरन्ती जरा यस्य तेन स्फुरजरसिन वृद्धेन स्थितम् । हेतू आह । गुरुषु धर्माचार्येषु पित्रोश्च मातापित्रोश्च विषये भक्त्या विनयेन तथा मोक्षाय यद् ज्ञानं धर्मशास्त्रपरिज्ञानं तस्यैव न तु संसारहेतुकामशास्त्रादिज्ञानस्य यः संग्रहो धारणं तस्माच्च । परिणतानां हि प्रायेण धर्मार्थितया विनयो मुक्तिहेतुज्ञानसंग्रहश्च स्यान्न तु यूनां मर्दमदनबाहुल्यात् ॥ सर्वस्य दूरजरसः प्रत्यासन्नजरस्य च । योगिनातिजरेणेह स्पर्धाध्यात्मे सदा लयात् ॥ १३४ ॥ १३४. इह पुरे सर्वस्य दूरजरसस्तरुणस्य प्रत्यासन्नजरस्य च वृद्धस्य च । कर्तरि षष्ठी। अतिजरेण योगाभ्यासप्रकर्षाजरामतिकान्तेन योगिना सह सदा स्पर्धा जयेच्छास्ति । कस्मादित्याह । आत्मनि विभक्त्यर्थेव्ययीभावे "अनः' [७.३.८८] इत्यति समासान्ते चाध्यात्म तस्मिन्नात्मनि यो लयः सर्वथा बाह्येन्द्रियनिरोधेन तदेकाग्रचित्तता तस्मात् "गम्ययप" [२.२.७४] इत्यादिना पञ्चमी। लयमाश्रित्य यादृग् महाध्यानं योगीन्द्राः कुर्वन्ति तागत्यो लोकः सर्वोपि करोतीत्यर्थः । अध्यात्म इत्यत्र सामान्यविशेषभावेन द्वौ भावौ यथासन आस्तै इत्यत्रासनं सामान्यविशेषभिन्नम् । अध्यात्म इति ह्यात्मनि यो भावस्तत्र लय इति विज्ञायते । तत्र सामान्यभावो वृत्तावन्तर्भूतस्तं प्रत्याधारभावश्च योसौ लयो विशेषभावः स वृत्तौ नान्तर्भूतस्तं प्रति सामान्यभावस्याधारभावश्चेति तत्र सप्तमी भवति ॥ १ सी डी शास्त्रं प. २ सी डी दन'. ३ सी डी एफू 'त्रत्यलो'. ४ सी डीस्त अत्य'. ५ डी वश्चे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy