SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । अमीभिरेभिरिमकैरमुकैश्च महात्मभिः । भात्यदोतिजरैः सिद्धैरत्रेति जगदुर्जनाः ॥ १३१ ॥ 3 I I १३१. अत्र पुरे जनाः सिद्धाद्भुतगुणरञ्जितत्वेनान्यजनानां पुरो जगदुः । कथमित्याह । अमीभिः प्रत्यक्षविप्रकृष्ठैरेभिः प्रत्यक्षसमीपतरैरिमकैरल्पैरज्ञातैर्वा प्रत्यक्षसमीपतरेर मुकैश्चात्पैरज्ञातैर्वा प्रत्यक्षविप्रकृद्वैश्च महात्मभिरतिजरैर्योगप्रभावेण जरामतिक्रान्तैः सिद्धैर्विद्यासिद्धैः कृत्वादः पुरं भाति पवित्री भवतीत्यर्थ इति ॥ 3 [ है० १.४.३. ] लोकाः । अर्थकामाभ्याम् । धर्माय । इत्यत्र "अत आ" [१] इत्यादिना - आकारः ॥ अत इति किम् | अभीप्सवः ॥ स्यादाविति किम् । मुक्तये ॥ ८५ सिद्धैः । अतिजरैः । इत्यत्र “भिस ऐ" [ २ ] इति भिस ऐस् ॥ एसादे - शेनैव सिद्ध ऐस्करणं संनिपातन्यायस्यानित्यत्वज्ञापनार्थम् । तेन अतिजरसैः । इत्यपि सिद्धम् । अत इत्येव । योगिभिः ॥ इमकैः । अमुकैः । इत्यत्र “इदम् " [३] इत्यादिना भिस ऐस् ॥ अक्वेति किम् । एभिः । अमीभिः ॥ एभिर्नयनयोः प्रीतिरेषां श्रीरेभ्य उत्सवः । I एषु धर्म इति श्रीमहान को नास्य वर्णयेत् ॥ १३२ ॥ १३२.अस्य पुरस्य श्रीमद्गृहानाव्यानां वेश्मानि दारान्वा को न वर्णयेत् । कथमित्याह । एभिः श्रीमद्गृहैः कृत्वा सौन्दर्यातिशयान्नयनयोर्लोके - क्षणयोः प्रीतिराहृदः स्यात्तथैषां श्रीलक्ष्मीर्वर्तते तथैभ्यः सकाशादुत्सवो वसन्तोत्सवादिर्महः प्रवर्तते तथैषु धर्मो देवपूजादानादिरस्ति । भोगधर्मफलत्वेनैषां लक्ष्मीर्न निरर्थिकेत्यर्थ इति ॥ १ सी डी ॥ सि.. २ डी सिद्धैः कृ. ३ सी 'वित्रीत्य'. एफ् वित्रं #°. ४ एफू आः स्यादावित्या . ५ एति मु. ६ ए ऐस् एसा. एफ् ऐसिति एस. ७ बी एफ दिमह:. ८ बी सी डी एफ रर्थके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy