________________
ट्याश्रयमहाकाव्ये
[मूलराजः] परद्रव्याणि गृहीत्वा ददत्सन्निन्द्य एव स्यादित्याह । परस्खायान्यद्रव्यायास्पृहयालुरन्यायेन परद्रव्यमगृह्णन्नित्यर्थः । एवंभूतोपि दत्वा विकत्थनो निन्द्य एव स्यादित्याह । स्वस्मायात्मनेश्लाघनः ।।
चक्रुरस्यारयो वस्त्रायान्तरस्मै कृतस्पृहाः ।
अन्तरायाः पुरो यात्रामन्तरस्माद्गृहादपि ॥ १४६ ॥ १४६. अस्य राज्ञोरयः पुरमध्ये मा स्म वयं प्रत्यभिज्ञायोमही हा इ ?] त्याशङ्कया पुरेषु प्रवेष्टुमशक्तत्वादन्तरायाः पुरैश्चण्डालादिपुर्याः सकाशादन्तरस्माद्गृहादपि । अपि: समुच्चये । नगरवाह्याञ्चण्डालादिगृहाञ्चण्डालादिगृहयुक्ताद्वा नगराभ्यन्तरगृहाच्च सकाशाद्याच्या वस्त्रप्रार्थनां चक्रुः । यतोन्तरस्मै वस्त्राय कृतस्पृहाः । अतिनिःस्वत्वेन वस्त्राभावाद्वस्त्रचतुष्टयमध्ये तृतीयाय चतुर्थाय वा स्पृहयालवः । एवं चानेन राज्ञा शत्रवो रोगः कृता इत्युक्तम् ॥
अमुष्मै तेजसैकस्मै यस्तस्थे समरान्तरे । कृतान्तः कुपितस्त्यस्मै तस्मिन् दैवं पराङ्मुखम् ॥ १४७ ॥ १४७. समरान्तरे रणमध्ये योरातिस्तेजसा प्रतापेनैकस्मायद्वितीयायामुष्मै राज्ञे तस्थे स्थानेनात्मानं वीरं प्रकाशितवास्त्यस्मै शत्रवे कृतान्त: कुपितस्तथा तस्मिञ्शत्रौ देवं पराङ्मुखं स मृत एवेत्यर्थः । अमुष्मा इत्यत्र "श्लाघगुस्था" [ २.२.६० ] इत्यादिना चतुर्थी । तस्थ इत्यत्र "जीप्सास्थेये" [ ३.३. ६४ ] इत्यात्मनेपदम् ॥
यस्मायेतस्मै शासित्रे द्वकयोोर्भुवस्तथा । त्वादृशोस्मादृशां पुण्यरित्यश्लाधिष्ट वासवः ॥ १४८ ॥
१ए सर्वनिन्ध. बी सी डी सर्वत्रनिन्द्य. २ एफ याच्याम". ३ एफ 'रश्नाण्डा. ४ एफ वास्तम्मै. . सी तस्त्यस्मै तरिम दै.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org