SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [है० १.४.६.] प्रथमः सर्गः। भवादृक्कीदृगेतस्मिन्नतिसर्वे यदीय॑सि । उत्तरे कोशले मत्र इत्थमस्योद्यमेभवत् ॥ १४९ ॥ १४८,१४९. अस्य मूलराजस्योद्यमे विजययात्रायां सत्युत्तरे कोशले। सामीप्यकाधारेन सप्तमी। उत्तरकोशलाख्यनृपसमीपे मन्त्रः कोशलनृपमत्रिणामभूत् । कथमित्याह । हे राजंस्त्वादृशो भवत्सदृशो भूपोस्मादृशामस्माकं पुण्यैर्वर्तत इत्येवंप्रकारेण । यस्मायेतस्मै राज्ञे वासव इन्द्रोप्यश्लाधिष्ट । यतः किं भूताय । द्वकयोर्द्वयोः शासित्रे रक्षित्रे । कयोकयोरित्याह । द्योः स्वर्गस्य तथा भुवः पृथ्व्याश्च । अन्यायिभ्यो ह्यसौ रक्षन् भुवः शास्ता । न्यायकरग्रहोपार्जितधनैर्यागान्कारयन्द्योश्च शास्ता। यतः __“यज्ञेषु वह्नौ विधिवद्भुतं देवानामुपतिष्ठते" इति श्रुतिः । तथाचोक्तं रघौ । दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ धतुर्भुवनद्वयम् ।। १.२६ ॥ इति । अतिसर्वे बलादिना विश्वत्रयेप्युत्कृष्टत्वात्सर्वमतिक्रान्त एतस्मिन्मूलराजविषये हे कोशलेश्वर यत्त्वमीय॑सि कोयं मत्पुर इति यन्न क्षाम्यसि तद्भवादृक्कीदृक् कीदृशः । कियन्मात्र इत्थम् । यस्मायेतस्मा इत्यत्र यदेतच्छब्दौ द्वावप्यनुवाद्यमात्रार्थप्रतीतिकृतौ । यथा यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । १ सी अस्यो'. २ सी शो भू. ३ एफ ईयो'. ४ बी सी एफ तस्मिस्तस्मि'. ५ ए बी लोक इत्यत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy