SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ९४ घ्याश्रयमहाकाव्ये [ मूलराजः] अहं त्वेवं मन्ये त्वदरिविरहाक्रान्ततरुणी कटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुः ॥ इत्यत्र ॥ सर्वस्मै । परसर्वस्मै । किंसर्वस्मै । सर्वस्मात् । विश्वस्मै । विश्वस्मात् । असर्वस्मिन् । अस्मिन् । इत्येतेषु “सर्वादेः सैसातौ' [७ ] " स्मिन्" [८] इत्येताभ्यां स्मैस्मास्मिन्नादेशाः ॥ उभशब्दस्य द्विवचनस्वार्थिकप्रत्ययविषयत्वात्स्मैप्रभृतयो न स्युः । गणपाठस्तु हेत्वर्थप्रयोगे सर्वविभक्त्यर्थः । उभौ हेतू । उभयस्मिन् ॥ अन्यस्मै । अन्यतरस्मै । इतरग्रहणेनैव सिद्धेन्यतरग्रहणं इतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादित्वनिवृत्त्यर्थम् । अन्यतमाय ॥ अन्येत्वाहुः । नायं उतरप्रत्ययान्तोन्यतरशब्दः किंत्वव्युत्पनस्तरोत्तरपदस्तरबन्तो वा। तन्मते डतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम् । अन्यतमस्मै। इतरस्मै। डतरडतमौ प्रत्ययौ। तयोः स्वार्थिकत्वात्प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षणोदार्थं च । कतरस्मै । कतमस्मिन् । यतरस्मै । यतममै । ततरस्मै । ततमस्मै । एकतरसात् । एकतमस्मात् । इह न भवति । सर्वतमे ॥ त्वशब्दोन्यार्थः । त्वस्मात् ॥ त्वच्छन्दः समुच्चये। तस्य स्मायादयो न भवन्तीति हेत्वर्थयोगे सर्वविभक्त्यादि प्रयोजनम् । गुणत्वतं हेतुम् ॥ नेमशब्दोर्धार्थः । नेमस्मै ॥ समसिमौ सर्वाथौं । समस्मात् । सिमस्मै । सर्वार्थत्वाभावे न स्यात् । असमात् ॥ खाभिधेयापेक्षे चावधिनियमे व्यवस्थापरपर्याये गम्यमाने पूर्वपरावरदक्षिणोत्तरापराधराणि । पूर्वस्मात् । परस्मात् । अवरस्मै । दक्षिणस्मात् । उत्तरस्मात् । अपरस्मात् । अधरस्मिन् । १ सी डी स्मै सौ. २ सी हेतौ। ३ एफ् तरः श. ४ सी णार्थ . ५ सी डी तमस्मै । कतमस्मिन् । ततरस्मै । ततमस्मै । ए°।. ६ ए एफ स्मै ततम. ७ ए स्मात् इ. ८ बी पेक्षयाव. एफ् पेक्षया चा. ९ डी स्मात् उ. १० एफू अध. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy