________________
९५
[है० १.४.८.]
प्रथमः सर्गः । व्यवस्थाया अन्यत्र न स्यात् । दक्षिणाय द्विजस्त्राय । आत्मात्मीयज्ञातिधनार्थवृत्तिः स्वशब्दः। आत्मात्मीययोः। स्वस्मै । स्वस्मायिव ॥ ज्ञातिधनयोस्तु न । द्विजस्वाय। परस्वाय ॥ बहिर्भावेन बाह्येन वा योगे उपसंध्यान उपसंवीयमाने चार्थेन्तरशब्दो न चेद्वहियोगेपि पुरि वर्तते । अन्तरस्माद्गृहात् । अन्तरस्मै वस्त्राय । पुरि तु न । अन्तरायाः पुरः । बहिर्योगोपसंव्यानादेरन्यत्र तु न स्यात् । समरान्तरे ॥ त्यस्मै । तस्मिन् ।यस्मै। अमुष्मै। अस्मै। एतस्मै । एकस्मै । द्वियुष्मद्भवत्वस्सदा स्मायादयो न संभवन्तीति सर्व विभत्तयादयः प्रयोजनम् । द्वकयोः । त्वादृशः । भवादृक् । अस्मादृशाम् । कीदृक् ॥ सर्वे चामी संज्ञायां सर्वादयो न स्युः । तेनेह न स्यात् । उत्तरे कोशले । सर्वादेरिति षष्ठीनिर्देशेन तत्संबन्धिविज्ञानादिह न भवति । अतिसर्वे ॥
नेमे दासीकृता नेमा हताश्चानेन भूभुजः ।
अर्धे द्विपा हयाश्चार्धाः सन्नद्धाः सर्व एव न ॥ १५० ॥ १५० अनेन राज्ञा नेमेर्धा भूभुजो दासीकृतास्तथा नेमाश्च भूभुजो हताः । ये नृपास्तं प्रणतास्ते सेवकीकृताः । ये तु दोद्धरत्वान्न प्रणतास्ते समूलमुन्मूलिता इत्यर्थः । तत्किं तजयाय सर्व सैन्यं सन्नद्धमित्याह । अर्ध इत्यादि कण्ठ्यम् । एतेन सैन्यस्यातिबाहुल्यमुक्तम् ।।
पूर्व तेजस्विनोभूवन् प्रथम चरमेपि च ।
न प्रथमा न चरमा उदितेस्मिन् वाविव ॥ १५१ ॥ १५१ पूर्वं मूलराजोदयात्प्रथमं प्रथमे मुख्याश्चरमेपि चामुख्याश्चापि नृपास्तेजस्विनः प्रतापिनोभूवन् । अस्मिन्नृपे महाप्रतापित्वाद्रवाविवोदिते
१ सी डी संवी . २ एफ् रमै अमुष्मिन् अ. ३ डी पोंभृतत्वा'. ४ एफ मे चा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org