SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ९६ व्याश्रयमहाकाव्ये [ मूलराज : ] सति न प्रथमास्तेजस्विनोभूवन्नं च चरमाः । सूर्योदयादपि पूर्व रात्रौ प्रथमे मुख्याश्चन्द्रमहाश्रमेपि चामुख्या नक्षत्रतारास्तेजखिनो भवन्ति रौ तूदिते नेति ॥ द्वये याचतुष्टये पञ्चतयाश्च के चन । गुणानस्य क्षमा वक्तुमल्पेल्पा गीर्पतेर्न ये ।। १५२ ॥ १५२ ये गीर्पतेर्बृहस्पतेः सकाशान्नाल्पा वाग्मितया न न्यूनास्तेल्पे केचन स्तोकाः केप्यस्य राज्ञो गुणान्शौर्यादीन्वक्तुं वर्णयितुं क्षमाः । अल्पेपि कियन्त इत्याह । द्वौ त्रयश्चत्वारः पञ्च वावयवा येषां ते तथा द्वौ यश्चत्वारः पञ्च वेत्यर्थः । द्वय इत्यत्र द्वाववयवो येषामिति यच्छन्दवाच्ययोर्द्वयोरपि गौरवविवक्षायां "गुरावेकश्च" [२.२.१२४] इति बहुवच्चाबहुवचनम् । अन्यथा द्विवचनमेव प्रसक्तम् ॥ कतिपयेपि गीर्वाणा नागाः कतिपया अपि । मणयः कौस्तुभस्यैव बभूवुर्नास्य संनिभाः ॥ १५३ ॥ १५३ कतिपयेपि स्तोका अपि गीर्वाणा ऊर्ध्ववासिदेवाः । नागा नागकुमाराः । ऊर्ध्वलोके धोलोके च मूलराजतुल्यो न कोप्यभूदित्यर्थः । । शिष्टं स्पष्टम् ॥ सर्वे । इत्यत्र “जस ई:” [९] इति-इः | नेमे नेमाः । अर्धे अर्धाः । प्रथमे प्रथमाः । चरमे चरमाः । चतुष्टये पञ्चतयाः । ये त्रयाः । अल्पे अल्पाः । कतिपये कतिपयाः । इत्यत्र “नेमा " [१०] इत्यादिना वा जस इः ॥ १ सी डी न चर. ४ एफ : ने". Jain Education International २ सी डी वच. ३ डी र्थः । शेषं स्प For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy