SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ [है० १.४.१२. ] प्रथमः सर्गः । शैलाः पूर्वापरे पूर्वापराच जलधेस्तटाः । सैन्ये भरदनक्षुण्णाः कीर्तयन्त्यस्य दिग्जयम् ॥ १५४ ॥ १५४. केण्ठ्यः । परं पूर्वापर इति पूर्वे पूर्वदिग्वर्तिनोपरा : पश्चिमदिग्वर्तिनः ॥ पूर्वापरे पूर्वापराः । इत्यत्र " द्वन्द्वे वा " [११] इति वा जस इः ॥ पूर्वापराच्छ्रियं कर्षन्दक्षिणोत्तरतोप्ययम् । दक्षिणोत्तरपूर्वाणां प्रतीच्या चाभवत्पतिः ।। १५५ । १५५. पूर्वा चापरा च पूर्वापरं तस्मात् । एवं दक्षिणोत्तरतः । चतुभ्यपि दिग्भ्य इत्यर्थः । शिष्टं स्पष्टम् ॥ पूर्वापरात् । दक्षिणोत्तर पूर्वाणाम् । इत्यत्र "न सर्वादि:" [१२] इति सर्वसर्वादिकार्याभावः। ‘“सर्वादयोस्यादौ” [३.२.६१] इति पुंवतु भवत्येव । तत्र भूतपूर्वस्यापि सर्वादेर्ग्रहणात् ॥ ननामास्मै श्रिया पूर्वायोजःपूर्वाय राजकम् । सोस्मायह्नावरायेवास्त्रिधन्मासावराय तु ।। १५६ ॥ १५६. अस्मै राज्ञे राजकं नृपौधो ननाम । यतः श्रिया सैन्यादिसंपदा पूर्वाय प्रथमाय तथौजःपूर्वायौजोभिः पराक्रमैः प्रथमाय । ओजसा पूर्वायेति तु वाक्ये “ओजोञ्जः " [३.२.१२]इत्यादिनालुक् स्यात् । स च राजास्मै राजकायाह्नावरायेव मासावराय नु दिनेन मासेन वा लघव इवास्निह्यदप्रीयत । न तु गर्वेण पराङ्कुखोभूदित्यर्थः । अह्नावराय मासावरायेत्येताभ्यां दिनेन मासेन चानुजो भ्रातैव गम्यतेस्निह्यदिति क्रियापदात् ॥ १ सी डी कण्ट्यम् । २ सी डी व प. ५ डी थेः । शेषं स्प १३ Jain Education International ९७ दि. ३ एकू रा: इ. ४ बी सी ६ एक पिस्यादे'. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy