SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः ] श्रिया पूर्वाय । ओजःपूर्वाय । अह्नावराय । मासावराय । इत्यत्र "तृतीया. न्तात्" [१३] इत्यादिना सर्वादिकार्य न ॥ कृष्णायास्मै द्वितीयस्मै द्वितीयायासिना नृपाः । द्वितीयस्मात्तृतीयाच देशादेत्य नमो व्यधुः ॥ १५७ ॥ १५७. गूर्जरत्रादेशापेक्षया द्वितीयस्मात्तृतीयाच देशादुपलक्षणत्वात्सर्वदेशेभ्य इत्यर्थः । एत्यागत्य नृपा अस्मै राज्ञे नमः प्रणामं व्यधुः । यतो द्वितीयस्मै कृष्णाय । ईदृशायापि कुत इत्याह । यतोसिना द्वितीयाय महाबलत्वेन सैन्यादिसहायनिरपेक्षायेत्यर्थः ॥ द्वितीयस्यास्तृतीयाया नृपकीर्तेरमर्षणः। जगत्यस्मिन्द्वितीयस्मिंस्तृतीये चैष विश्रुतः ॥ १५८ ॥ १५८. एष राजास्मिञ् जगति पृथिव्यां द्वितीयस्मिञ् जगति पाताले तृतीये च जगति स्वर्गे च विश्रुतो विख्यातः । यतो द्वितीयस्यास्तृतीयायाः स्वकीर्यपेक्षयान्यस्या अन्यतरस्याश्चोपलक्षणत्वात्सर्वस्या इत्यर्थः। नृपकीर्तेरन्यराजयशसः कर्मणोमर्षणोसोढा । परिभावुक इत्यर्थः । अतश्चायमेव सर्वत्र प्रसिद्ध इति भावः ॥ तेजसा सूर्यजातीये सर्वेषां प्रलयो द्विषाम् । कान्त्या द्वितीयके चेन्दौ हर्षोस्मिन् सुहृदामभूत् ॥१५९॥ १५९. तेजसा प्रतापेन कृत्वा सूर्यः प्रकारोस्य तस्मिन्सूर्यजातीये सूर्यवत्प्रचण्डेस्मिन् राज्ञि सर्वेषां द्विषां प्रलयः क्षयोभूत् । एतत्प्रता१.सी तीयस्माच्च. १ सी डी °रदे. एफ °रधात्रीदे . २ एफ तीयस्माच्च. ३ बी सी डी एफ पृथ्व्यां द्वि. ४ एफ र्गे वि. ५ बी एफ र्यप्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy