SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [है० १.४.१५.] प्रथमः सर्गः। ९९ पेनापि सर्वे शत्रवः प्रलीना इत्यर्थः । तथा कान्त्या सौम्यतया कृत्वा द्वितीयकेज्ञाते द्वितीय इन्दौ च चन्द्रे चास्मिन् सर्वेषां सुहृदां मित्राणां हर्ष आनन्दोभूत् । एतदर्शनेनापि सर्वे सुहृद आनन्दिता इत्यर्थः । अस्मिन्नित्यत्र नैमित्तिक आधारे सप्तमी । द्विट्प्रलयसुहृद्धर्षयोरयं निमित्तमित्यर्थः ॥ द्वितीयस्मै द्वितीयाय । द्वितीयस्मात् तृतीयात् । द्वितीयस्मिन तृतीये । द्वितीयस्याः तृतीयायाः । इत्यत्र "तीयं डिस्कार्ये वा" [१४] इति वा सर्वादिकार्यम् । ङित्कार्य इति किम् । तत्रैव सर्वादित्वं यथा स्यान्नान्यत्र । तेनाक् न स्यात्तथा च कप्रत्यये सति स्वार्थिकप्रत्ययान्ताग्रहणात्स्मैप्रभृतयो न स्युः । द्वितीयके ॥ अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न स्यात् । सूर्यजातीये ॥ सर्वेषाम् । इत्यत्र “अवर्णस्यामः साम्" [१५] इति साम् ॥ पूर्वे न्याय तथा धर्मे पूर्वस्मिन्नेष तत्परः । पूर्वस्मात्पुरूरवसस्तत्पूर्वान्नाप्यहीयत ॥ १६० ॥ १६०. एष राजी नाहीयत न न्यूनोभूत् । कस्मात् । पुरूरवसो बौधाञ्चतुर्थचक्रिणः सकाशात् । तथा पूर्वस्मात्पुरूरवस एव प्रथमात्तत्पितुर्बुधात् । तथा तत्पूर्वादपि तस्माद्धात्पूर्वः प्रथमः पिता चन्द्रस्तस्मादपि यतः पूर्वे पुरूरवःप्रभृतिपूर्वराजबंद्धे न्याये नीतौ तथा पूर्वस्मिन्धर्मे तदनुष्ठाने तत्परस्तन्निष्ठः । पूर्वनृपाचरितौ न्यायधौं पा. लयन्नित्यर्थः । अहीयतेति कर्मकर्तरि ॥ १ एफ तीयेन्दौ. २ डी तीयस्मा . ३ एफ न् । द्वितीये । तृतीयस्मिन् । तु. ४ एफ स्याः। द्वितीयायाः । तृतीयस्राः । तृ. ५ एफ र्यमिति. ६ सी दि डिकार्यत्वं. ७ सी डी था चाक्प्रत्य. ८ एफ जा न हीयेत. ९ एफ नो भवेत. १० एफ बन्धे न्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy