SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०० द्व्याश्रयमहाकाव्ये [मूलराजः] पूर्व दैत्या बलिमायाः पूर्वाः कर्णादयो नृपाः। क्षमायां स्मारितास्त्यागक्रियाया अमुना किल ॥ १६१ ॥ १६१. किलेति सत्ये । अमुना राज्ञा त्यागक्रियाया दानाद्धेतोर्बलिप्रायाः । प्रायो बाहुल्यतुल्ययोः । बलिसदृशाः पूर्वोतना दैत्याः । तथा कर्णादयः कर्णः कौरवपक्षीयो राजा तदादयो दधीचिजीमूतवाहनाद्याः पूर्वा नृपाश्च स्मारिताः स्मृतिपथमानीताः । बलिकर्णादिवद्ददावित्यर्थः । बलिकर्णादयो हि लोके दानशौण्डत्वेन प्रसिद्धाः । यदुक्तम् । अतिदानाद्वलिबद्धः ॥ त्वचं कर्णः शिबिर्मासं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ निस्त्रिंशे बहुखदायां रिपुकीलालपि व्यधात् । स्थानमेषोनुरक्तायाः क्रीडायै विजयश्रियः ॥ १६२ ॥ १६२. एष राजानुरक्तायाः शौर्यादिगुणैरावर्जिताया विजयश्रियः क्रीडायै विलासाय बहुखट्वायामीषदूनखटायां विस्तृततया पल्यङ्कतुल्ये निस्त्रिंशे खड्ने स्थानमावासं व्यधादत्तवान् । यतो रिपूणां कीलालं रुधिरं पिबति यस्तस्मिशत्रूच्छेदकै इत्यर्थः । शत्रूच्छेदकत्वादस्य खड्ङ्गे विजयश्रीय॑वसदित्यर्थः । याप्यनुरक्ता स्त्री स्यात्तस्या रतये पतिः खट्टायां स्थानं ददाति ॥ पूर्वे पूर्वाः। पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे। इत्येषु “नवभ्य'' [१६] इ. त्यादिना-इस्मास्मिनो वा ॥ क्रीडायै । क्रियायाः । अनुरक्तायाः । क्षमायाम् । इत्यत्र " आपो ङिताम्" १ बी लोका दा. २ सी डी नास्ति दे'. ३ एकत्वा. ४ एफ इत्यत्र न. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy