________________
[ है ० १.४.२०.]
प्रथमः सर्गः ।
१०१
[१७] इत्यादिना यै- यास-यास- यामः ॥ आप इति पकारः किम् । कीलालपि । तत्संबैन्धिविज्ञानादिह न भवति । बहुखाय नराय । एतच्चोदाहरणं स्वयं ज्ञेयम् । इह तु भवति । बहुखङ्गायां निस्त्रिंशे ॥
हितः प्रजायै सर्वस्यै सर्वस्याः संपदः पदम् ।
ख्यातोसौ दिशि सर्वस्यां सर्वस्या नृपसंहतेः ॥ १६३ ॥
१६३. अयं राजा सर्वस्या भूतभवद्भाविन्या नृपसंहतेः सकाशात्सर्वस्यां दिशि दशस्वपि दिक्षु ख्यातोभूत् । यतः सर्वस्यै प्रजायै हितोनुकूलः । तथा सर्वस्याः सैन्यकोशादिकायाः संपदः पदं स्थानम् ॥
सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् । इत्यत्र “सर्वादेः " [14] इत्यादिना पूर्वा यैास्यास्यामः ॥
लीलया भुजयोर्लक्ष्मीवसुधे अस्य विभ्रतः । कुन्दावदातैरोदस्यो यशोभिः पूरिते इमे ।। १६४ ।।
१६४. स्पष्टः ।
लीलया । भुजयोः । इत्यत्र “टौस्येत्” [१९] इत्येत् ॥
पूरिते । इमे । लक्ष्मीवसुधे बिभ्रतः । इत्यत्र “औता” [२०] इत्येत् ॥ चारु चापेषुधी त्यक्त्वा समरेष्वस्य वैरिभिः ।
गुरू अबलताभीती शिश्रियाते अतिस्त्रियौ ।। १६५ ॥
१६५. अस्य राज्ञः समरेषु वैरिभिश्वारू रणालंकर्मीणौ चापेषुधी धनुस्तूणौ त्यक्त्वाबलताभीती निःसत्वताभये शिश्रियाते आश्रिते । कीदृशे ।
°र्वस्या । स ं. ४ सी
१ सी डी रः । की. डी निःस्वत्व.
Jain Education International
२ सी बन्धवि.
३ एफ्
For Private & Personal Use Only
www.jainelibrary.org