SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १०२ व्याश्रयमहाकाव्ये [ मूलराजः ] गुरु महत्यौ । अत एवातिस्त्रियौ । स्त्रीशब्देनात्र स्त्रीगते अबलताभीती उपचारादुच्येते । स्त्रियमतिक्रान्ते स्त्रीगताबलताभीतिसकाशादप्यधिके इत्यर्थः । यदायं राजा रणभूमिमापतति तदा वैरिणः स्त्रीभ्योप्यधिकमबेलाभीताश्च सन्तः शस्त्राणि मुञ्चन्तीत्यर्थः । यावप्यतिस्त्रियौ ब्रह्मचारित्वात्त्रियमतिक्रान्तौ चारु प्रशान्ततया मनोहारिणौ गुरू आचार्यौ भवतस्तौ चापेषुधी त्यक्त्वा वैरिभिरपि श्रीयेते तथाविधैतद्दर्शने वैरानुबन्धोपशमादित्युक्तिः ।। अस्याभूवन्ननाहार्या बुद्धयः कामधेनवः । त्रासादतिस्त्रयोनेन चक्रिरेह्यवोरयः ॥ १६६ ॥ १६६. अस्य राज्ञोनाहार्या अकृत्रिमा मत्र्याद्युपदेशं विनापि संसिद्धा इत्यर्थः। बुद्धयो मनोभीप्सितपूरकत्वेनानाहार्या: केनापि हर्तु - मशक्याः कामधेनव इव कामधेनवो भूवन् । अत एवानेन राज्ञाहयवोहंकारिणोरयस्त्रासाद्भीतेरतिस्त्रयः स्त्रियोपि सकाशाद्भीरवश्चक्रिरे ॥ ε ७ अबलताभीती । गुरू चापेषुधी चारू त्यक्त्वा । इत्यत्र " इदुतो: " [२१] इत्यादिना-ईदूतौ ॥ अस्त्रेरिति किम् | अतिस्त्रियौ । इदमेव चास्त्रिग्रहणं ज्ञापकं परे I णापीयादेशेनेत्कार्यं न बाध्यत इति । तेनातिस्त्रयः ॥ अरयः । अहंयवः । बुद्धयः । धेनवः । अतिस्त्रयः । इत्यत्र “जस्येदोत्" [२२] इत्येतौ ॥ १ एफ् 'तिस्त्रियो ं. १ एफू °ते स्त्रीम .. ४ एफ वाली ८ एफ चास्र्ग्रह ९ एफू नेतत्का Jain Education International २ एफ्बलताभी. ३ ए मुञ्चतीत्य. सी डी मुचुन्ती . ५ एफ् रूपशा ६ डी 'हंका. ७ बी सी 'तिस्त्रियः • · For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy