________________
८२
व्याश्रयमहाकाव्ये [ मूलराजः] कस्मात्पापट्टि दोष्ष्वात्ता प्रश्ने वम्भषि किं न हि ।
लज्जा वृश्चेति मुग्धायां शिक्षेह प्रियसंनिधौ ॥ १२६ ॥ १२६. इह पुरे प्रियसंनिधौ सति मुग्धायां विषये शिक्षा । अर्थात्सखीनाम् । कथमित्याह । हे सखि दोष्षु बाहुष्वात्ता भर्ना गृहीता सती कस्मात्पापक्षि कुटिलं गच्छसि पत्युः सकाशाकिमिति वक्रीभूय यासीत्यर्थः । तथा प्रश्ने पत्युः पृच्छायां किं किमिति न हि बम्भषि नैव भृशं भाषसे। तथा लजां वृश्च छिन्द्वीति । मुग्धायामित्यत्र जातावेकवचनम् । अन्यथा दोष्ष्वित्यत्र बहुवचनं नोपपद्येत ।।
चवर्गेण । वृश्च लजाम् ॥ षकारेण । दोष्षु ॥ टवर्गेण । पापटि ॥ बम्भषि । इत्यत्र "सस्य शषौ" [६१] इति शषौ ॥ प्रश्ने । अत्र “न शात्" [६२] इति जो न ॥
नगेट्तुङ्गत्वलक्ष्मीजुट्थूत्कृतद्विड्युलिध्वजैः।
नागड्नु धवलैः शीर्षविभ्राट् सालोत्र सर्वतः ॥ १२७॥ १२७. अत्र पुरे साल: कोट्टः सर्वत: सर्वासु दिक्ष्वस्ति । कीदृग् । नगेड् गिरीशो मेरुस्तस्य या तुङ्गत्वलक्ष्मीरोन्नत्यश्रीस्तां जुषते सेवते यः सः । तथा धुलिहोत्युच्चप्राकारशिरःस्थत्वेनाकाशस्पृशो ये ध्वजास्तैः कृत्वा थूत्कृतद्विट् थूत्कृतमत्र प्रस्तावादश्वफेनस्तस्य द्विट् जेता । अतिश्वेतकेतुरित्यर्थः । यद्वा थूत्कृतं थूत्करणं द्वेष्टि
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ।
आक्रोशत्यवजानाति कदर्थयति निन्दति । १ सी डी अस्मा. २ एफजां वश्चे'. ३ ए गेडुङ्ग. ४ एफ जुड्थू.
१ सी डी ती अरमा . २ सी डी किमपि व. ३ सी डी एफ नैवं भृ. ४ एफ र्वत्र स. ५ बी त्यस्य श्री. ६ सीडी तम. ७ एफ तुभिरि'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org