________________
[है० १.३.६०.] प्रथमः सर्गः।
मूर्धन्यत्वं शश्वदृवट्ठवड्डवड्डवण्णवत् । सूनृतस्फुटवक्तृणामीट्टे को नेह कोविदः ॥ १२४ ॥ १२४. इह पुरे सूनृतस्फुटवक्तृणां सत्यप्रकटवादिनां मूर्धन्यत्वं मूर्धस्थायित्वमन्यस्थानस्थाखिलसूनृतस्फुटवक्तृभ्यः प्रधानतामित्यर्थः । कः कोविदो विद्वान्ने?। किं तु सर्वोपि वर्णयतीत्यर्थः । यथा टस्य ठस्य डस्य ढस्य णस्यै च मूर्धस्थानभवत्वेन मूर्धन्यत्वं मूर्धस्थानभवत्वं कोविदो वैयाकरण ऋवर्णटवर्गरषा मूर्धन्या इति शिक्षापदेन वर्णयति । शब्दश्लेषेणोपमा ।
तन्वण्डामरतामग्रे कुर्वण्णकुटिलालकाः।
स्मरोस्मिण्ढौकितधनुर्विश्वमट्टितुमड्डति ॥ १२५ ॥ १२५. स्मरो विश्वमट्टितुं हिण्डितुं विजययात्रां कर्तुमित्यर्थः । अड्डत्युद्यच्छति । कीहक्सैन् । अस्मिन्पुरे वर्तमाना णकुटिलालका णकारवत्कुटिलकेशीः स्त्रीर्जगजयायाग्रे कुर्वन् । एतेन सैन्यसंपदुक्ता । तथा ढौकितं जगज्जयाय प्रगुणीकृतं हस्ते गृहीतं धनुर्येन सः । धनुशब्दोत्रोदन्तः । सान्ते तु धन्वनादेशः स्यात् । एतेनास्त्रसंपदुक्ता । अत एव डामरतां प्रतापप्रचण्डिमानं तन्वन् विस्तारयन् । योपि सेनाशस्त्रप्रतापसंपदन्वितो विजिगीपुर्नृपः स्यात्स विश्वं जेतुमडुतीति ।
शकारेण योगे । उच्शलत् । अस्मिञ्शुशुभिरे ॥ चवर्गेण । उच्शलच्चामर । स्फुरच्छन । उज्वल । शश्वज्झषित । तझुडुवे । प्रशाञ्चरञ्जनम् । प्रीणञ्झषञ्च ॥ पूर्वेण चवर्गेण । याजा । यज्ञ । राज्ञा ॥ पूर्वेण शकारेण परेण च षकारेण प्रतिषेधो वक्ष्यते । पूर्वेण तु षकारेण । पिष्टम् ॥ टवर्गेण । शश्वट्टवटवडुवढवण्णवत् ॥ अड्डु । अड्डुति ॥ अट्टि । अट्टितुम् । तन्वण्डामरताम् । अस्मिण्ढौकित। कुर्वण्ण ॥ पूर्वेण टवर्गेण । ईट्टे । इत्यत्र "तवर्गस्य" [६०] इत्यादिना चवर्गटवर्गादेशौ ॥
.. १ एफ °स्य मू. २ सी डी सन् । पुरे ।. ३ ए 'घु नृपः. ४ एफ °चटवर्गा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org