SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ घ्याश्रयमहाकाव्ये [ मूलराजः] १२२. अत्र पुरे विद्वान् । जातावेकवचनम् । पण्डितजातिश्छात्रेषु विषये तत्तद्यद्यच्छात्रा अध्येतुमिच्छन्ति तत्तव्याकरणादि बुङवे व्याख्यदतो ज्ञायते गीरिव स्वयं मूर्ता सरस्वतीव । कीदृक् सन् । प्रशान् विद्यावलेपादिरहितस्तथा चरन्नतिभूरित्वेन दूरस्थानां छात्राणामध्ययनात् प्रमाद्यतामुत्साहनाय तन्मध्ये विचरंस्तथा बकुटिलाशयान् । बकारवत्कुटिलचित्तान् परस्परमात्सर्यादिना कलहादि कुर्वतश्छात्रा• नित्यर्थः । झषन् प्रलम्बकम्बया ताडयन्नत एव भव्यरीत्या पाठनेन जनं प्रीणन्। गीरपि प्रशान्ता सर्वत्र स्वेच्छया विहरति अकुटिलाशयान् कुवादिनो झषति निराकरोति जनं प्रीणयति तत्तदनेकविधं शास्त्रजातं व्याख्याति च । यद्वात्र पुरे चरन् कणवृत्त्यै भ्राम्यन् सन् विद्वान्वेदोपाध्यायश्छात्रेषु बैटुषु तत्तद्यद्यदध्येतुमिच्छन्ति तत्तद्वेदशास्त्रं झुडुवे बैटून्पाठितवानित्यर्थः । वेदपाठो हि द्विजैभिक्षाभ्रमणं कुर्वद्भिर्विधीयते । शेषं पूर्ववत् ॥ स यज्ञपुरुषः स्पर्धामस्मिन् राज्ञा कथं वहेत् । द्विषद्याच्चैकवज्रेण पिष्टं यस्याखिलं यशः ॥ १२३ ॥ १२३. दानैकशौण्डत्वेनात्रत्यराजस्य याच्या सर्वथाखण्डितयशस्कत्वादस्मिन् राज्ञात्रत्यनृपेण सह स्पर्धां साम्यं स यज्ञपुरुषो विष्णुः कथं वहेत् । यस्याखिलं यशो द्विषतः शत्रोर्या याच्या प्रार्थना सैव यशःशरीरस्य चूर्णकत्वेनैकमद्वितीयं निरुपमं वज्रमशनिस्ते. पिष्टं चूर्णितम् । मित्रादपि याच्या लाघवहेतोर्यशः पिनष्टि किं पुनः शत्रोः । विष्णुनो तु द्विषन् बलिमिनीभूय त्रिपदी याचित इति ॥ १ सी डी °ति ज. २ एफ बहुपु. ३ एफ बहून्पा. ४ ए °न चू. ५ ए ना तद्वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy