SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [है० १.३.६२.] प्रथमः सर्गः । तमन्वेत्यनुबध्नाति तच्छीलति निषेधति । तस्य वानुकरोतीति शब्दाः सादृश्यसूचिनः । इति वचनादनुकरोति ॥थूत्कृतद्विट्युलिडित्यत्र द्युशब्दोपादानादिवं प्रति स्वरामणीयकाहंयुत्वेनावज्ञया द्युलिध्वजैः कृत्वा धूत्कुर्वन्निवेत्यर्थः ।। तथा यथा नागेट शेषाहिवलैः शीर्षैः शिरःसहस्रेण विभ्राजते । एवं धवलैः शीर्षाकारत्वेन शीर्षैः कपिशीर्षैः कृत्वा विभ्राट् शोभमान: ॥ सषण्णवतिपाषण्डं हृष्टाश्रमचतुष्टयम् । स्थितं षण्णगरीः षण्णां जित्वैतच्चक्रवर्तिनाम् ॥ १२८ ॥ १२८. एतत्पुरं षण्णां चक्रवर्तिनां धुन्धुमारादीनां षट् षट्संख्या नगरी राजधानीजित्वा श्रीविशेषेण परिभूय स्थितम् । यतः कीदृग् । षड्दर्शनव्यतिरिक्ताः कुत्सितव्रताचाराः सर्वलिङ्गिन: पाषण्डास्ते च लोकोक्त्या षण्णवतिसंख्यया रूढाः सर्वधर्मसाधनसामग्रीसद्भावेन समनस्वस्वधर्मनिर्वाहात्सह षण्णवत्या पाषण्डैवर्तते तत् । तथा चत्वारोवयवा यस्य चतुःसमुदायस्य तच्चतुष्टयं हृष्टं प्रमुदितमाश्रमाणां ब्रह्मचारि १गृहिरवानप्रस्थ३भिक्षुटणां चतुष्टयं यत्र तत् । एतेनास्यात्यन्तं महद्धिकतोक्ता ॥ द्विषन्षनाम कामादील्लीलया विघ्नशान्तये । तीर्थकृत्षोडशः शान्तिः स्मर्यते तल्लयैरिह ॥ १२९ ।। १२९. इह पुरे षोडशस्तीर्थकृत् शान्तिः शान्तिनाथो विनशान्तयेन्तरङ्गाणां रागादीनां बाह्यानां मार्यादीनां चोपद्रवाणामुपशमार्य तस्मिन् १ एफ रीष°. २ एफ् ॥ २९ इति तृतीयपादः ॥ इ. १ ए बी सी एफ °च्छीलं तंनि. २ बी स्य चानु. ३ सी डी लै: शि. ४ एफ ते इति त. ५ डी ष्टं मु. ६ बी द्धिंतो'. ७ एफ वाणां चोप. ८ ए यस्तरिम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy