________________
७४
ध्याश्रयमहाकाव्ये
[मूलराजः]
यदि स्त्रीणां श्रुतास्मिन् गीर्यदि दृष्टा मुखेन्दवः ।
कल काणः खरः पिक्याः फल्गुश्चन्द्रोपि तक्यते ॥१११॥ १११. अस्मिन्पुरे स्त्रीणां यदि गीर्वाणी श्रुता तदा पिक्याः कोकिलायाः कलो मधुरोपि काणः शब्दः खरः कठोरस्तय॑ते । अर्थाल्लोकैः । तथा स्त्रीणां मुखेन्दवो यदि दृष्टास्तदास्तां तावदन्यः कमलादिविच्चन्द्रोपि सकलजगदाह्लादनहेतुकत्वेन सर्वत्र प्रसिद्ध इन्दुरपि फल्गुर्निरर्थकस्तय॑ते । स्त्रीमुखेन्दुभिरेव सर्वलोकाादनलक्षणस्य चन्द्रकार्यस्य कृतत्वाञ्चन्द्रेण न किंचित्कार्यमिति लोकैर्विमृश्यत इत्यर्थः ॥
वसन्ताधर्तुभिः सर्वैयुगपत्पर्युपासिते ।
प्रार्छन्ति क्रीडयोद्याने नापत्या इह नार्कुलैः ॥ ११२ ॥ ११२. नृपतेरपत्यानि “अनि दम्यणि' [६.१.१५] इत्यादिना ज्ये नापत्या राजकुमारा नार्कुलै कुल उपचारान्नृगुणोपेतक्षत्रियवंशे भवैः पौरुषोपेतक्षत्रियकुमारैः सह क्रीडया गेन्दुकक्रीडादिकया हेतुनोद्याने प्राछन्ति गच्छन्ति । यतः कीदृशे सर्वैः षड्भिर्वसन्ताधर्तुभिर्युगपत्समकालं पर्युपासिते सेविते । सर्वक्रीडाहरामणीयक इत्यर्थः ॥
विरामे । मुखेन्दवः । अघोघे । कलः क्वाणः खरः पिक्याः फल्गुः । ऋतुभिः सर्वैः इत्यत्र "रः पदान्ते' [५३] इत्यादिनी रस्य विसर्गः ॥ फल्गुश्चन्द्र इत्यादिषु तु शादय एवापवादत्वात्स्युः ॥ पदान्त इति किम् । तय॑ते । सर्वैः । कथं नार्पत्याः नार्कुलैः वसन्ताद्यर्तुभिः प्रार्छन्तीत्यादि । असिद्धं बहिरङ्गमन्तरङ्गे [न्या० सू० २०] इति बृद्धेरारादेशाश्रयस्य रेफस्यासिद्धत्वाद्विसर्गो न
___ १ एफ् तुत्वे . २ एफ स्य कर्तृत्वा. ३ एफ अणि द. ४ °म्यणू इ ?. ५ सी
डी कुलै उ०. एफ °कुलैरुप. ६ डी वंशभ. ७ डी दृशैः स. ८ एफ°ना वि. ९ एफ गइ. १० ए सी डी एफ वृद्ध्यरा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org