SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ [है० १.३.५२.] प्रथमः सर्गः। वा देहभाक् प्राण्युपाध्यायमन्त्रौषधिदेवतादिप्रभावेण सुवाग् । संस्कृतवचनो भवति । तथा सतृट् धनधान्यादिषु सतृष्णो निस्तृट् स्वर्णरूप्यादिसिद्ध्या पूर्णमनोरथत्वाद्विगतस्पृहः । तथा सलुप् शरीरावयवच्छेदवान निळुव् देवतादिप्रभावेण पूर्णाङ्गावयवः । तथा विमुत् रोगातकादिना गतहर्षः समुद् महावैद्यादिसंपत्त्या विगतरोगाद्युपद्रवत्वात्सहर्षों भवति । अत एवात्र देहभागमरैर्देवैः सध्यङ् समो भवति । देवा अपि हि सुवाचो निस्तृषो निर्लप: समुदश्च स्युः । यतोद्भुतास्पदे महोपाध्यायसप्रत्ययमन्त्रौषधीदेवतादिजनितानामद्भुतानां स्थाने ॥ अवाक् सुवाग् । सतृट् निस्तृड् । विमुत् समुद् । सलुप् निर्लुब् । अत्र "विरामे वा” [५१] इति वा प्रथमः ॥ विराम इति किम् । देहभागमरैः ॥ धुट इत्येव । सध्यङ् ॥ कण्ठलग्नाः सदा स्त्रीणाम् खेलन्ति इह पिड्गकाः। विरामे न प्रवर्तन्ते कदाचित्संधयो यथा ॥ ११० ॥ ११०. सिन्वन्ति विलासान् “शृङ्गशादियः' इति गप्रत्ययान्तः पञ्चमोपान्त्यः षिङ्ग इति निपातः । यद्वा । सिटानादरेण गच्छति गायति वा "पृषोदरादयः' [३.२.१५५] इति षत्वे षिड्ग इति टवर्गीयतृतीयोपान्त्यः । अज्ञातेर्थे कपि षिङ्गका भुजङ्गाः स्त्रीणां कण्ठलग्नाः कण्ठाश्लिष्टाः सन्त इह पुरे सदा खेलन्ति क्रीडन्ति । यथा विरामे वर्णानां विरतौ सति संधयः संधिकार्याणि "न संधिः" [१.३.५२ ] इति प्रतिषेधात्कदाचिन्न प्रवतन्ते । तथा विरामे खेलनान्निवृत्तिविषये न प्रवर्तन्ते नोद्यच्छन्ति ॥ खेलन्ति इह । स्त्रीणाम् खेलन्ति । इत्यत्र “न संधिः" [५२] इति संध्यभावः ॥ विरामे न प्रवर्तन्ते कदाचित्संधयो यथेत्यनेन चोपमानेन ते आहुः । सद् लुनाति । भवान् लुनाति इत्यादीनि शेषोदाहरणानि ज्ञापितानि ॥ १ एफ ताप २ सी त धा. ३ बीड् सुवर्ण. ४ एफ हाविद्या. ५ सीडी °महौष . ६ °षधदे'. ७ एफ ज्ञाताईं. ८ सी ति नसंधिभा. ९ सीडी त्यादिशे'. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy