________________
व्याश्रयमहाकाव्ये [ मूलराजः] यः प्रभाच्छेदः प्रतापोच्छेदस्तत्र मैत्रावरुणनिष्ठुरा उर्वश्यां मित्रावरुणाभ्यां जातत्वान्मित्रावरुणयोरयमपत्यत्वेन मैत्रावरुणो वशिष्ठस्तद्वनिष्ठुराः प्रचण्डाः। वशिष्ठो ह्यर्बुदाश्रमस्थो विश्वामित्रेण राज्ञार्बुदागतेनापहृताया नन्दिनीधेनोः प्रत्याहरणाय महायागं कृत्वाग्निकुण्डे चतुहस्तं चतुर्वकं कोपावेशात् हुमित्युच्चारयन्तं तेजस्विनं महाभटं निष्पादितवान् ।
स जित्वा कौशिकं जन्ये धेनुं प्रत्याहरन्मुनेः । प्रीत्युन्मुखात् प्रमाराख्यां प्राप प्राज्यैर्वरैः सह । इति । यथा वैसिष्ठेन महाज्ञानक्रियाबलेन विश्वामित्रस्य माहात्म्यमपहृतमेवं विश्वोपद्रवकारिणां दैत्यादीनां दर्पमपहरन्त इत्यर्थः । यद्वा । षट् कर्माणि देवपूजागुरूपास्तिस्वाध्यायसंयमतपोदानरूपाणि प्रतिदिनकृत्यानि येषां ते षटुर्माणः परमश्रावका अत्र सन्ति । किंभूता वाक्पूतास्तथा तत्तयानेकविधत्वेन प्रसिद्धया विद्यया श्रुतज्ञानेनै मतिज्ञानेन वा ककुप्सु श्रुता अत एव विश्वे समस्ता येमित्रा रागद्वेषाद्यन्तरङ्गशत्रवस्त एव विश्वामित्रस्तत्प्रभाच्छेदे मैत्रावरुणनिष्ठुराः ॥
वाक्पूताः । प्रभाच्छेदे । षट्कर्माणः । तत्तत् । ककुपश्रुताः। अमित्र । इत्यत्र "अघोषे" [५०] इत्यादिना प्रथमः ॥ अघोष इति किम् । विद्या ॥ अशिट इति किम् । निष्ठुराः॥
अवाक् सुवाग सतृट् निस्तृड् सलुप् निर्लन् विमुत्समुद् ।
देहभागमरैः सध्यङ् भवत्यत्राद्भुतास्पदे ॥ १०९ ॥ १०९. अत्र पुरेवाक् जडजिह्वत्वेन कुत्सितवाग् मूकत्वेन वाग्रहितो
१ बी वसिष्ठ. २. सी डी त्रेणावु. ३ सी डी एफ वशिष्ठे'. ४ एफ न वा. ५ सी डी मित्रास्त. ६ एफ द्याः ॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org