SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [है० १.३.४९.] प्रथमः सर्गः । अस्तब्धा दुग्धशुद्धात्मन्मा लज्जस्व प्रगल्भ्यताम् । fotos मानं सपत्नीनां मुग्धास्मिन्निति पाठ्यते ॥ १०७ ॥ १०७. अस्मिन्पुरे मुग्धा नवोढा पाठ्यते सखीभिः शिक्ष्यते । कथमित्याह । हे दुग्धशुद्धात्मन्नकुटिलाशये भर्तुः समीपागमे मा लजव किं तु प्रगल्भ्यतां शृङ्गारसारस्वकलाकौशलप्रकाशनेन प्रगल्भीभूयेताम् । ततश्च प्रेयसोतिवल्लभीभवनेन सपत्नीनां मानं सौभाग्यविषयं गर्व पिण्डि चूर्णयेति । यतोस्तब्धा विनीता । यो स्तब्धो विनीतः स्यात् मुग्धो मूर्खोप्युपाध्यायेन पाठ्यते ॥ ७१ लजस्व । दुग्ध । मुग्धा । पिण्डि । शुद्ध । अस्तब्धा । इत्यत्र " तृतीयः ” [४९] इत्यादिना घुट: स्थानिप्रत्यासन्नस्तृतीयः । तृतीयचतुर्थ इति किम् । पाव्यते ॥ घुट इत्येव । प्रगल्भ्यताम् ॥ पर्माणोत्र वाक्पूतास्तत्तद्विद्याककुश्रुताः । विश्वामित्रप्रभाच्छेदे मैत्रावरुणनिष्ठुराः ।। १०८ ।। १०८. षट् कर्माणि यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणानि प्रतिदिनकृत्यानि येषां ते षर्माणो द्विजा अत्र पुरे सन्ति । कीदृशा वाक्पूताः सत्यभितवाक्त्वेन वचनेन पवित्राः । एतेन सदनुष्ठानवत्त्वमुपलक्षितम् । तथा तास्ता अनेकप्रकारत्वेन प्रसिद्धा या विद्या: शिक्षाकल्पादयश्चतुर्दश ताभिः ककुप्सु दिक्षु श्रुता विख्याताः । एतेन ज्ञानित्वोक्तिः । अत एव विश्वामित्रप्रभाच्छेदे विश्वस्योपद्रवकारित्वेनामित्राः शत्रवो विश्वामित्रा दैत्यराक्षसादयस्त एवान्यायकारित्वाद्विश्वामित्रो गाधिसूनुस्तस्य १ एफ् स्वप्र° २ सी यत ३ सी डी यं सर्व. ४ सी डी स मू. ५ एफ् ग्धोपि मू. ६ सी स्थानप्र डी स्थानेप्र. ७ एफ् 'वित्रिता: ।. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy