SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७० व्याश्रयमहाकाव्ये [मूलराजः] धर्म शिण्ढि गुणाञ् शिण्ड्डि पिण्ड्यघं पिण्ड्डि दुष्कलिम् । प्रत्तं गृहाण नापत्तं शिक्षात्रेति विपश्चिताम् ॥ १०५ ॥ १०५. शिण्डि सदाचाराचरणेन विशिष्टीकुरु । पिण्ढि चूर्णय । प्रत्तं स्वामिना दत्तम् । नाप्रत्त्तम् । नञ् मार्थे । अदत्तं मा गृहाणेत्यर्थः । शिष्टं स्पष्टम् ॥ शाङ्गिणः सक्न उद्भूतां गुणदर्जी सुरस्त्रियम् । अत्र नार्यः कलाबोध्यो विजयन्ते निजैर्गुणैः ॥१०६ ॥ १०६. अत्र पुरे कला गीतनृत्ताद्याश्चतुःषष्टिस्तासां बोद्भयो ज्ञान्यो नार्यः सुरस्त्रियं स्वर्वेश्यां निजैर्गुणै रूपादिभिर्विजयन्ते उत्कृष्टत्वात्पराभवन्ति । किंभूताम् । शाङ्गिणो विष्णोः सक्न ऊरुप्रदेशादुद्भूतां संजाताम् । हरेः किलातितीव्र तपस्तपस्यतः क्षोभाय स्वपदापहारक्षुभितेनेन्द्रेणाप्सरस: प्रेषितास्ताश्च क्षोभनाय नृत्तादिविलासान् कुर्वतीदृष्टा तदर्पापनोदाय हरिणा निजसक्थि विदार्यागताप्सरोरूपजैत्री उर्वशीनाम्नी स्त्री निर्मम इति लोकोक्तिः । अत एव गुणदर्ती गुणै रूपलावण्यादिभिर्दर्पिष्ठीमपि ॥ प्रत्तं प्रत्तम् । शिण्ढि शिण्ड्डि । पिण्ढि पिण्ड्डि । इत्यत्र “धुटो धुटि स्वे वा" [४४] इति धुटो लुग्वा ॥ धुट इति किम् । शाङ्गिणः॥धुटीति किम् । सक्नः ॥ स्व इति किम् । दर्तीम् ॥ व्यञ्जनादित्येव । बोद्रयः ॥ १ सी डी 'कलंम्. १ डी एफ र्थः । शेषं स्प. २ एफ नृत्याद्या'. ३ एफ षष्टिकलास्ता. ४ डी वैशां नि. ५ एफ नृत्यादि. ६ एफ छामिति ॥. ७ एफ ङ्गिणो ॥ धु'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy