SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [ है० १.३.५५.] प्रथमः सर्गः। स्यात् । एवं पावपि ॥ तयोरिति किम् । सयुगपत् । अन्वित्यधिकाराद् गीः इत्यादिषु दीर्घत्वे कृते पश्चाद्विसर्गः । अन्यथा हि पूर्व विसर्गे कृत इरुरोरभावादी? न स्यात् ॥ प्रभुकार्येषु ध्रख्यातैः क्षत्रियैः प्सातसाध्वसैः । भात्यत्र श्रीमतां द्वारं खड्गिभिः त्सरुपाणिभिः ॥ ११३ ॥ ११३. अत्र पुरे श्रीमतां द्वारं सौधबहिर्भागः क्षत्रियैः कृत्वा भाति । कीदृशैः । शक्तिस्वामिभक्त्यतिशयेन प्रभुकार्येषु स्वामिकृत्येषु धूःख्यातैः धुर्यादौ प्रसिद्धैः । प्सातसाध्वसैर्ग्रस्तभयैः । शूरत्वेन निर्भयैरित्यर्थः । खगिभिः खड्गप्रहरणान्वितैः खङ्गे पार्श्वस्थेपि खगिन उच्यन्ते तन्निराकरणायाह । त्सरुः खड्गमुष्टिः पाणौ येषां तैः खगव्यग्रकरैः । धनिनां हि सौधद्वारे रक्षार्थ खगव्यग्रकरामहाभटास्तिष्ठन्ति । धूःख्यातैः । इत्यत्र “ख्यागि" [५४] इति रस्य विसर्ग एव ।। खगिभिः त्सरु । क्षत्रियैः प्सात । ख्यातैः क्षत्रियैः । इत्यत्र “शिट्यघोपात्" [५५] इति रस्य विसर्ग एव ॥ मदाम्भश्योतिनोत्रेभा लावण्याम्भश्श्च्युतः स्त्रियः। दानाम्भःश्च्युत्कराश्चान्या धनं निष्टयूतवद्विदुः ॥ ११४ ॥ ११४. अत्र पुर इभा गजा मदाम्भश्योतिनो मदजलस्राविणो मदोन्मत्ताः सन्ति । तथा स्त्रियो लावण्योम्भश्श्श्युतो लावण्यपात्राणिसन्ति। तथाढ्या धनिनो दानं हि जलदानपूर्व दीयत इति स्मृतेर्दानाम्भःच्युदानस्य जलं क्षरन् करो हस्तो येषां ते तथा सन्तो धनमुदारत्वान्नि १ एफ् ण्याम्भ:श्युतः. २ एफू नाम्भश्श्च्युत्क. १एफ वे प. २ बी भावत्वाद्दी. ३ एफ अस्मिन्पु. ४ All mss. read जलश्राविणः. ५ एफ ण्याम्भः श्च्युतो. ६ एफ नाम्भश्च्यु. ७ सी डी था रसतो ध. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy