________________
७९०
ब्याश्रयमहाकाव्ये [ कर्णराजः] न शक्तैमास्थातुमशान्तदान्तैः श्रीवेश्म मे स्पष्टमदासिता.ः । ततस्त्वमच्छन्नमदस्तपूर्णबलिमयाँ स्पाशित एवमन्ये ॥५७॥
५७. श्रीवेश्मास्थातुमाश्रयितुं न शक्तं न शक्यते स्म । कैः कैरित्याह । अशान्तैदान्तैरजितेन्द्रियतपःक्लेशासहैस्तथा मे मह्यं स्पष्टमदासिता.रदत्तपूजैश्च । तत्तस्माद्धेतोरच्छन्नं प्रकटमदस्तपूर्णबलिमह्यमदत्तपर्याप्तपूजोपचारस्त्वं मया स्पाशित एव भक्षणाय गृहीत एवेति मन्ये । यद्यपि राज्ञ: स्पशनं भावि तथाप्यनेनातिस्वाधीनत्वेन कृतमिव संभावितमित्यतीते क्तः ॥ रक्षोभिराच्छादितपूरितं प्राक् संज्ञप्तविश्वैर्दमितामरैर्हि । विश्वस्तया पातुमिदं श्रियौक आज्ञापितोहं शमितान्यशक्तिः॥५८॥
५८. इदं प्रत्यक्षमोको लक्ष्मीगृहं पातुं रक्षितुं विश्वस्तया मयि कृतविश्वासया श्रियाहमाज्ञापितो नियुक्तः । यतः कीदृशम् । प्राक्पूर्व संज्ञप्तविश्वैर्मारितलोकैर्दमितामरैः परिभूतदैवै रक्षोभिर्हि स्फुटमाच्छादितपूरितमाक्रान्तं संभृतं च । यतः कीदृशोहम् । बलिष्टत्वेन शमितान्येषां राक्षसादिशत्रूणां शक्तिर्येन सः॥ ___ कथमाज्ञापित इत्याह ॥ जप्तॉपि मत्रैर्जपितापि पुष्पैस्तूर्णं भवाम्युच्छ्रसिता न तस्य । न ते बलिं यस्त्वरितो दिशेत्माग्वलिः स भावी रुषितस्य ते च
॥ ५९॥ १ ए क्तमस्था'. २ ए °वेशने स्प. सी वेस्म मे. ३ ए लि. ४ बी या स्फाशि. ५ ई साभिम'. ६ ए जप्तापि. ७ बी पुष्पैस्तू. ८ ए मुच्छसि'. ९ ए वी ऋषि.
१सी वेस्मास्था . २ सी शक्य'. ३ बी °न्तदीतैर. ४ बी ततस्तस्मा. ५ ए राज्ञ स्प. ६ ए सी डी व सश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org