SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ [ है० ४.४.६९.] दशमः सर्गः। अभ्यान्तरक्षोवमितास्रष्टा वान्ताश्रुरास्वान्तवतीति वृत्तिम् । संघुष्टवाग्मेभ्यमितस्य देवी प्रतिज्ञया संघुषितस्वनस्य ॥ ६० ॥ ५९,६०. देवी लक्ष्मीर्मे वृत्तिं जीविकामास्वान्तवत्युवाच । कीहक्सती । अभ्यमन्ति स्माभ्यान्तान्यभिमुखमागतानि यानि रक्षांसि तैर्वमितमरुच्योद्गीण यदलं पूर्वपीतं मनुष्यादिरक्तं तेन रुष्टात एव वान्ताश्रुः कोपावेशेन नेत्रेभ्योश्रूणि क्षरन्ती । कीदृशः सतो मेभ्यमितस्य देव्यभिमुखं गतस्य तथा प्रतिज्ञया त्वद्वेश्म मया सर्वदुष्टेभ्यो रक्ष्यमेवेत्यभ्युपगमेन संघुषितस्वनस्य नानोच्चारितशब्दस्य । कां वृत्तिमित्याह । यो नरस्त्वरित उत्सुकः संस्ते तुभ्यं प्राग्बलिं न दिशेन्न दद्यात्तस्य प्राक्तुभ्यं बलेरदातु!च्छ्सिता न प्रसन्ना भामि। कीदृशी। मत्रैस्तूर्ण जैतापि स्मृतापि पुष्पैत्रिपूतकुसुमैर्जपितापि मन्त्रोच्चारपूर्व करवीरादिपुष्पक्षेपेण स्मृतापीत्यर्थः । तथा स प्रोक्तुभ्यं बलेरदाता रुषितस्यापूजया क्रुद्धस्य ते बलिर्भावी च स त्वया ग्रसनीय इत्यर्थ इति । न च वाच्यमवहेलया प्रतिज्ञातं संकुच्चैतां वृत्तिं देवी तेवोचदिति । यतः संघुष्टवागेवंविधा ते वृत्तिरेवेति प्रतिज्ञातवचनैवंविधा ते वृत्तिरित्यसकृदुच्चारितवचना वा ॥ १ ए क्षोवामिताश्रु. २ ई ताश्रुरु. ३ ए सी वान्तांश्रु. सी वाताश्रु. ४ ए वाग्मभ्य'. १ए °न्तिमासमाभ्या. २ ए रक्ता तेन रष्टा'. ३ ए वाताः श्रुः . ४ ए देभ्योभि. ई देव्या अभि. ५ ए रक्षमे'. ६ ए त्यभ्यप. ७ सी डी गमनेन. ८ ए त्सुकसं. ९ ई कः सँस्ते. १० सीडी वामीति । की. ११ ए ई ता स्मृ. १२ ई प्राक् बलैर'. १३ ए °ता ऋषि'. १४ ई क्रुधस्य. १५ बी नवा. १६ ए °च्यसव. १७ ए बी डी कृच्चतां. सी कृत्वेती वृत्ति दे. १८ बी सी त्तिरेवं विधा ते वृत्तिरि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy