________________
[ है० ४.४.६.] दशमः सर्गः। भटुं बलिं भ्रष्टुमथाज्यमांज्ञा प्रत्तः प्रदत्तः कुसुमानि राजा। नीत्ताहुतिस्तैर्गुरुवीत्तमत्रैर्देव्यै विदत्तासन आबभासे ॥ १२ ॥
१२. राजा कर्ण आबभासे शुशुभे । कीहक्सन् । गुरुणाचार्येण विशेषेण दीयन्ते स्म गुरुवीत्ता ये मन्त्रास्तैः कृत्वा देव्यै लक्ष्म्यै विदत्तासनो वितीर्णपीठस्तथा बलिमुपहारं भैष्टुं पक्तुमथ तथाज्यं घृतं भ्रष्टुं विलीनयितुमाज्ञामुत्तरसाधकानामादेशं प्रत्त: प्रदातुमारब्धस्तथा देव्यै कुसुमानि प्रदत्तः प्रदातुमारब्धस्तथा तैर्बल्याज्यकुसुमैः कृत्वा देव्यै नीत्ताहुतिर्दत्तहव्यः । पीठमंत्रोच्चारपूर्व देवीं पीठे स्थापयित्वा बँलिभिः पुष्पैराहुतिभिश्च पूजयन् राजाभादित्यर्थः ॥ जजाप नासाग्रनिदत्तनेत्रोक्षसूत्रसूत्ताङ्गुलिकः क्षितीशः । सुदत्तचित्खे विदवत्तमौरनूतपुष्पैरनुदत्तहोमैः ॥ १३ ॥
१३. क्षितीश: कर्णो जजाप । कैः कैः कृत्वा विदवत्तमंत्रैर्विदा गुरुणावत्ता दत्ता ये मन्त्रास्तैस्तथानूत्तपुष्पैर्दत्तकुसुमैस्तथानुदत्ता ये होमा अग्नौ तिलादिहवनौनि तैश्च मन्त्रजापं पुष्पजापंहोमजापं च चकारेत्यर्थः । कीदृक्सन् । नासाग्रनिदत्तनेत्रस्तथाक्षसूत्रसूत्ताङ्गुलिको जैपमालिकायां संस्थापिताङ्गुलिकस्तथा ख आकाशे सुदत्तचित्संनिवेशितचित्तोखिलेन्द्रियविषयव्यावृत्त्या निराकारध्यानं कुर्वन्नित्यर्थः ।
१ ए माज्ञा प्र. २ ए नीत्याहु . ३ सी डी °से ॥ स रा . ४ ए नाशान. ५ बी डी पुष्पर.
१ सी डी ण हीय. २ ए यते स्म. ३ ए सी डी वीत्ता म'. ४ ए भष्टु प. ५ ए तं स्रष्टुं. ६ ए °व्यैनीत्वाहु. ७ ए मत्रोच्चा. ८ ए बहुलि'. ९ ए°मत्रिवि . १० बी °माऽसौ. ११ सी डी नादि तै. १२ ए क्षमूत्रसूत्रागुलि . १३ ए पनालि'. १४ एचित्सनि. १५ बी तोखले.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org