SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ७६० व्याश्रयमहाकाब्बे [कर्णराजः क्शाता न हि प्राजितुमप्यनिष्टख्यातारमों ब्रह्म स किं नु चक्शे । ब्रह्मा न चख्शे मुरजिन्न चख्ये न चाचर्चक्षे च यथेन्दुमौलिः ॥११॥ ११. स कर्ण उपशान्तत्वादनिष्टख्यातारमप्यप्रियवक्तारमपि नरं प्राजितुं निराकर्तुं न हि नैव क्शाता वक्ता किं तु ब्रह्म परमध्येयमोमोकारं तथा चक्श उच्चारितवान् यथा ब्रह्मा न चख्शे यथाँ मुरजिद्विष्णुर्न चख्ये यथेन्दुमौलिश्च हरश्च नाचचक्षे ॥ पर्यभूत् । व्यवोचत् । इत्यत्र "अस्ति" [१] इत्यादिना भूवचौ ॥अशि. तीति किम् । अस्ति । बुवाणः ॥ विवाय । इत्यत्र “अर्घ' [२] इत्यादिना वीः ॥ अघक्यबलचीति किम् । समाजे । समज्याम् । समजे । अजानाम् ॥ प्रेवेता प्राजिता । प्रावयण्यम् प्राजन । इत्यन्न "नने वा" [३] इति वा वीः ॥ अन्ये त्वने प्रत्यये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता प्राजिता । प्रवेतुम् प्राजितुम् ॥ क्शाता । ख्यातारम् । अत्र "चक्षो वाचि" [४] इत्यादिना क्शाङ्ख्यागौ। चक्शे । चख्शे । चख्ये । अत्र "न वा" [५] इत्यादिना वा क्शाङ्ख्याङ्गौ ॥ पक्षे । आचचक्षे ॥ चख्शे । अत्र "शिव्याद्यस्य द्वितीयो वा " [१.३.५९] इति कस्य खः ॥ १ ए बी ख्शे सुर. २ बी चक्ष्ये च. ३ ए क्षेथ य. १ ए भो ओङ्कार त. सीमो आकारं. २ सी ख्शेन चख्शे मु. डी ख्शे मु. ३ ए थासुर . ४ बी चख्शे य. ५ए चौ ॥ प्रशि. ६ ए स्ति । ध्रुवा'. ७ सी डी णः ॥ व्यवा. ८ ए °घड् इ. ९ ए बी ई क्यवल . १० ए ज्या । समजो । अं. ११ ए प्रचेता. १२ ए प्रायवण्यम् प्रोज'. १३ बी दौ वावि. १४ ए ता । ख्योता. १५ बी चक्शौ । च. डी चक्षे । च. १६ ए चख्वे । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy