________________
७६२
व्याश्रयमहाकाव्ये [कर्णराजः] आत्तावदत्तैलिभिः स इत्थं समाहितो धीतसुधारसो नु। स्थितः सितांहा अदितामितौजा दिनान्यमातानि तपःशिताङ्गः
॥१४॥ १४. स कोमातान्यसंख्यानि दिनानि स्थितः । कीडक्सन् । इत्थमुक्तरीत्यात्तावदत्तैरात्ताः पूर्वमुत्तरसाधकेभ्यो गृहीता येवदत्ताः पश्चालक्ष्म्यै प्रदत्तास्तलिभिः पूँजोपकरणैः कृत्वा सितांहा विनाशितविघ्नस्तथा तप:शिताङ्गस्तपश्चरणकृशदेहोत एवादितामितौजा अप्रतिहतासंख्यर्तपःप्रभावस्तथा समाहितः समाधिवानत एव धीतसुधारसो नु पीतपीयूष इव ॥ अन्येचुरच्छातनिशातबुद्धौ हित्वान्यकर्माच्छितसंशितेसिन् । अभूजहित्वा समयं स्वसामग्रिकामजाहित्व ऋतुर्घनानाम् ॥ १५॥
१५. अन्येधुर्घनानामृतुर्वर्षाकालोभूत् । किं कृत्वा । समयं स्वकालं जहित्वा त्यक्त्वाकाल इत्यर्थः । तथा स्वसामग्रिकां विद्युदादिसंपदमजाहित्वा गृहीत्वा । क सति । अस्मिन्कएँ । किंभूते । अच्छाताखण्डिता निशाता तीक्ष्णा बुद्धिर्ज्ञानं यस्य तस्मिन् । तथान्यकर्म तपस इतरद्राज्यादि कार्य हित्वांच्छितमखण्डितं संशितमसिधारातीक्ष्णं व्रतं यस्य तस्मिन् । यद्वा । अकर्मकत्वविवक्षीयां संश्यति स्म संशितो व्रते यत्नवान् । अँच्छितो यः संशितस्तस्मिन् ॥
१ ए बी सी आत्तावदत्तैर्व. २ ए तः सतां. ३ ए तासितौ . ४ ए हितान्य. ५ सी डी स्थित.
१ ए बी सी त्यात्तावदत्तरात्ताः पू. २ डी दत्ताः प. ३ डी दत्तास्तै. ४ ए पूजौप. ५ ए देशोत. ६ ए तपप्र. ७ ए तमुधा. ८ बीयूख ई. ९ ए क्त्वा इका. १० सी डी त्वा क. ११ ए त्वा इच्छि. सी डी त्वा स्थित . १२ ए क्षाया सं. १३ ए संसितो. १४ ए अस्थितो. १५ एन् । भ्रष्टुं भ्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org