________________
७४४
व्याश्रयमहाकाव्ये
[कर्णराजः]
एषादरिद्राणमुद्यददरिद्रायिका ददौ । तस्यातोदिदरिद्रासोर्न दरिद्रायिकाभवत् ॥ १५८ ॥ १५८. एषा कन्या यद्रव्यादि ददौ । कीहक्सती । अदरिद्रोयिकोदारा तथाविद्यमानं दरिद्रोणं दारिद्र्यं यस्याः सा तथा मुत्कर्णरूपदर्शनोत्थो हर्षों यस्याः सा तथा । अतस्तस्माद्दानाददिदरिद्रीसोरीश्वरीबुभूपोस्तस्य चित्रकृतो दरिद्रायिका दारिद्र्यं नाभवत् ॥ ____ कान्तेरददरिद्रावद्रूपमेषाबिभश्च तत् ।
न नाचकाः किं त्वचकादमुनेति न कोन्वशात् ॥१५९॥ १५९. तत्कर्णरूपमेषा कन्याविभश्चात्मपार्श्वेधारयञ्च । यतः कान्तेः सौन्दर्यादिशोभायाः सकाशाददरिद्रावददरिद्रितं परिपूर्णकान्तीत्यर्थः । ततश्चैतां को नान्वशान्नावदत् । कथमित्याह । हे कन्येमुना कर्णरूपेण कृवीं त्वं न नाचका न नाशोभेथाः किं त्वचकादत्यन्तं त्वमेवाशोभथा एवेत्यर्थ इति ॥
मां रुणो विरुणन्मा स्म मां भिनः संमिनत्म मा।
वशं जङ्गमिता तेस्मीत्येषावावद्यत स्मरम् ॥ १६० ॥ - १६०, कर्णरूपदर्शनेन स्मरपैरवशत्वादेषी कन्या स्मरेमवावद्यताभीक्ष्णमवोचत् । कथमित्याह । हे स्मर त्वं मां मा स्म रुणो मा बाधिष्ठास्तथा मा स्म मां विरुणन्मा विद्विक्षस्तथा त्वं मां स्म मामा स्म भिनो
१ ए बी सी ई "द्रायका.२ सी डी त्॥ कर्ण. ३ ए रुणोन्मा. ४ एनत्समा.
१ ए यद्रव्यदि. २ ए बी सी ई द्रायको'. ३ सी डी द्राणां दा. ४ ए सी द्रासौरी'. ५ बी रीवभू. ६ ए भूषास्त. ७ ए कान्त सौ. ८ सी त्वा त्वमे. ९ए भयाः किं. १० ए भया ए. ११ ए ई ति ॥ मा रु. १२ ए रपवरश. १३ ए °षा कन्या, १४ डी रमेवावाव. १५ ए त्या हे'. १६ ए मा सामि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org