________________
है०४.३.७७.
नवमः सर्गः।
७४३
वपि नालिक्षातामत एव स्वजन एतद्वन्धुवर्गः सुखेदरिद्रीदरिद्रोभूत्सुखरहितोभूदित्यर्थः । तथा सखीजनः सुखेदरिद्रासीत् ॥
उपारुद्ध । मा विरुद्धाः । अकृत । मा कृथाः । अत्र "धुड्" [ ७० ] इत्यादिना सिचो लुक् ॥ अनिट इति किम् । अभाषिष्ट । अभाषिष्ठाः ॥ अन्वग्रहीः । इत्यत्र “इट ईति" [ ७१ ] इति सिचो लुक् ॥ चकाधि चकाद्धि । इत्यत्र “सो धि वा" [ ७२ ] इति सस्य वा लुक् ॥
असि ॥ हस्त्वेति । द्योतयामाहे । अन्न “अस्तेः सि हस्त्वेति" [७३] ईति सस्य लुगेकारे तु हः ॥ परोक्षाया एकारे नेच्छन्त्यन्ये । द्योतयामासे ॥
अदुग्ध अधुक्षत । अदिग्ध समधिक्षत। अलीढं अलिक्षत । न्यगूढ अघुक्षत । इत्यत्र “दुहेदिह" [ ७४ ] इत्यादिना सको लुग्वा ॥
अलिक्षाताम् । अत्र "स्वरेतः" [ ७५ ] इति सकोस लुक् ॥
अदरिद्रीत् अदरिद्रासीत् । इत्यत्र "दरिद्रोद्यतन्यां वा" [७६] इत्यन्तस्यै लँग्वा ॥
दरिद्रांचक्रुषामन्तर्दरिद्रामीति कोप्यदात् ।
कर्णरूपं लिखित्वास्या अदरिद्रायकोन्यदा ॥ १५७ ॥ १५७. कोपि चित्रकरोन्यदा कर्णरूपं लिखित्वास्याः कन्याया अदात् । कीदृक्सन् । दरिद्रांचक्रुषामन्तदरिद्राणां मध्ये दरिद्राम्यहं दरिद्रोस्मीति हेतोरदरिद्रायको दरिद्रिष्यन्नीश्वरीभवितुमित्यर्थः॥
१ ए °चक्षुषा. सी चक्षपा. २ डी रिद्रोमी. १ ए क्षातां त. २ सी द्रीभू. ३ ए त्यथाः । त°. ४ ए पिष्टं । अ. ५ ए सी ग्रहीदित्य. ६ ए ति तस्य. ७ डी तम् । अ. ८ ए अली . ९ सी ढम् अ. १० सी डी क्षत् । न्य. ११ ए अधुक्ष. १२ ए दुहिदुह. १३ बी ई °रे इ. १४ ए लुग्व ॥. १५ ए चक्षुष्वा. १६ ए दलिद्रा . १७ ए सी हैं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org