________________
६७
[ है० १.३.४४.] प्रथमः सर्गः । ऊोस्ति । कीदृक् सन् । सुष्टु सर्वसामुद्रिकलक्षणोपेतत्वेन शोभन संस्थानं शरीरावयवरचना यस्य स सुसंस्थानः सुरूप इत्यर्थः । तथासंस्तब्धोनहंकारस्त्वयि सप्रश्रय इत्यर्थः । तदेतदभ्युत्थानाय त्वमप्युत्तिष्ठेति व्यजितमित्येवंप्रकारेणास्मिन्पुरे सख्युक्त्या वयस्याशिक्षयोत्तिष्ठन्ती पत्युरभ्युत्थानायो/भवन्ती मुग्धा नवोढा ख्यङ्गमुदस्तभत् स्तम्भरहितं चक्रे । विनीतं चकारेत्यर्थः । यद्वा । किल कां चन मुग्धां निकदमायान्तं पतिं दृष्ट्वा सद्यः स्मरोद्रेकात्स्तम्भेन सात्विकविकारेणाक्रान्तां किंकर्तव्यतामूढामभ्युत्थानादिप्रतिपत्तिमकुर्वाणां निकटस्था सख्येवमाह । यथा हे सखि स प्रसिद्ध एष प्रत्यक्षस्ते पतिरसंस्तब्धस्त्वदर्शनेपि गाम्भीर्यातिरेकात्स्तम्भरहितोज्ञेयस्तम्भविकार इत्यर्थः । अत एव सुसं. स्थानोविकृताकारः सन सूत्स्थान ऊर्ध्वस्थितोस्ति । एतेनेदं व्यञ्जितं यदुत सखीजनमेलापकेपि त्वं मुग्धतयागम्भीरत्वात्पतिदर्शने स्तम्भान्वितात एव विकृतोपविष्टा चाभूरितीत्येवंप्रकारेणास्मिन्पुरे सख्युक्त्या मुग्धोत्तिष्ठन्ती पत्युरभ्युत्थानायो:भवन्ती सत्यङ्गमुदस्तभेत् स्तम्भरहितं चक्रे । एवं व्यङ्गयोक्त्या सख्या तत्कामचेष्टायां प्रकटितायां पत्युरभ्युत्थानायोत्तिष्ठन्ती स्तम्भसंरम्भमाच्छादयामासेत्यर्थः ।।
सोढा । वोढा । इत्यत्र “सहिवहे:०" [४३] इत्यादिना ढस्य लुगवर्णस्य चौकारः ॥ अवर्णस्येति किम् । व्यूढ ॥
केतूत्थैः । उत्तम्भित । इत्यत्र "उदःस्था” [४४] इत्यादिना सस्य लुक् । उद इति किम् । सुसंस्थानः । असंस्तब्धः। स्थास्तम्भ इति किम् । उत्स्तौति ॥
१ सी मुद्रक. २ सी भनसं. ३ सी डी राघव. ४ एफ् सुस्था. ५ बी सी ख्युक्तावयस्याः शि. ६ सी डी त् संरम्भ. ७ ए सी क्रान्तं किं. ८ सी खि प्र. ९ डी स्तम्भोवि. १० सी डी रः सू. ११ एफ कृताविकारायानासत्युप. १२ सी ख्युक्ततामु. १३ सी डी त् संरम्भ. १४ डी म्भमा . १५ एफ् म् । अ. १६ सी डी स्थानम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org