________________
६८
घ्याश्रयमहाकाव्ये
[ मूलराजः]
स इति किम् । उत्तिष्टन्ती । उदस्तभत् ॥ प्रत्यासत्तेः स्थास्तम्भविशेषणस्यैवोदो ग्रहणादिह न भवति । उत्स्थानः । अत्र ह्युदः स्थानेत्यनेन नाम्ना सिद्धताख्यभावरूपेण संबन्धो न तु पूर्वापरीभूतमात्रवाचिना धातुनेति ॥ सूत्स्थानः ॥ सैष ते पतिः इत्यत्र "तदः से:" [४५] इत्यादिना सेलृक् ॥
यद्विक्रमः सकोप्यस्य यत्प्रस प्रभुतागुणः। . इन्द्र एष भैष वास्माद्राज्येषोत्र स्तुतिक्रमः ॥ १०२ ॥ १०२. अत्र पुरे राज्ञि नृपविषय एष एवंविधः स्तुतिक्रमो वर्णनारीतिर्भवति । यथा यद्यस्माद्धेतोरस्य राज्ञो विक्रमः शौर्य सको यक इन्द्रे । श्रूयते स इत्यर्थः । तस्मादेष राजा इन्द्रः शक्रः । तथा यद्य. स्मादस्य राज्ञः प्रभुतागुण आज्ञैश्वर्य प्रस य इन्द्रे श्रूयते । तस्मात्प्रकृष्ट इत्यर्थः । तस्मात्प्रैष वास्मादस्मादिन्द्रात् प्रकृष्टो वैष राजेति ॥
एषकः किं सकः स्वर्गस्तस्यानेषो हि डम्बरः।
सोप्यसः किमभूत्सिद्धैरत्रैवं क्रियते भ्रमः ॥ १०३ ॥ १०३. अनेकाद्भुतश्रीनिधानत्वादत्र पुरविषये सिद्धैर्देवभेदैरेवमेवंविधो भ्रमः संशयः क्रियते यथा सकः सदा दृष्टपूर्वः स्वर्गो नाक: किमेषकः प्रत्यक्षेणोपलभ्यमानपुरलक्षणः । यद्वा । नायं स्वर्गः । कुत इत्याह । तस्यानेषो हि डम्बर इति हि स्फुटं तस्य स्वर्गस्य डम्बर आडम्बरो लक्ष्मीविलासोनेषः प्रत्यक्षेणोपलभ्यमानेदंपुराडम्बर एष नै एषोनेषोन्योन्यादृशो हीन इत्यर्थः। तत्किं सोप्यसोभूत् । अपिरेवार्थे । स एव स्वर्ग एव । किं न सोसोन्य: स्वरूपं परित्यज्य रूपान्तरवानभूत् । अनेर्षे इत्यस्य च प्रत्यक्षोपलभ्यमानपत्तनाडम्बराद्विलक्षणाडम्बरमात्रवाचित्वेन
१ ए °स्मादि. २ एफ र ल°. ३ डी न न ए'. ४ एफ घोन्यो'. ५ सी प. बएषस्य. डीप एप इ. ६ सीडी त्वे य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org