________________
घ्याश्रयमहाकाव्ये
[मूलराजः] मुक्त्वा सौरभातिशयाढ्यत्वात्प्रौढानां मुखान्याघ्रातुं भृङ्गः पुनः पुनौकत इत्यर्थः ॥
माढि । लीढ । प्रौढानाम् । इत्यत्र "ढस्तड्डे" [४२] इति ढस्य लुगकारेकारोकाराणां च दीर्घः ॥ तडु इति किम् । मधुलिड् ढोकते । नायं लुप्यमानढकारनिमित्तो ढः ॥ अदिदुत इत्येव । आवृढः ॥ अन्वित्येव । लेढुम् । मोढा । अत्र गुणे कृते पश्चाडलोपः॥
न वोढास्य श्रियां स्वर्गो न सोढा वर्णने गुरुः । व्यूढोत्तम्भितकेतूत्थैरुत्स्तौतीत्यारवैर्मरुत् ॥ १० ॥
१००. मरुद्वायुयूंढा विशाला उत्तम्भिता: कोट्यधिपतिगृहादिपूर्वीकृता ये केतवो ध्वजास्तेभ्य उत्थोत्थानं येषां तैरारवैः पटत्पटिति शब्दैः कृत्वोत्स्तौतीव प्राबल्येन वर्णयतीव । अर्थादिदं पुरम् । कथमित्याह । अस्य पुरस्य श्रियां प्रासादादिलक्ष्मीणां स्वर्गोपि न वोढा न धारयत्यत एवास्य वर्णने गुरुर्वाचस्पतिरपि न सोढौं न समर्थ इति ।।
असंस्तब्धः सुसंस्थानः सूत्स्थानः सैप ते पतिः। मुग्धास्मिनिति सख्युक्त्योत्तिष्ठन्त्यङ्गमुदस्तभत् ॥१०१॥ १०१. किल काचिन्नायिका मुग्धा पत्यौ समीपमागतेपि मुग्धत्वादभ्युत्थानादिप्रतिपत्तिं न कृतवतीति सख्या शिक्षार्थमुक्ता । यथा हे सखि स निरुपमगुणैः सर्वत्र प्रसिद्ध एष प्रत्यक्षस्ते तव पतिः सुष्टु त्वदीयचित्तावर्जनापेक्षित्वेन शोभनमूर्ध्व स्थानमवस्थितिर्यस्य स सूत्स्थान
१ बी सी ख्युक्तोत्ति.
१ एफ पटेति. २ ए तीतिव. ३ ए °ढा सौं. ४ एफ थः ।।. ५ डी खि नि', ६ डी णैः स स. ७ सी पेक्षत्वे . ८ एफ नमुदूर्ध्व. ९ सी डी मूर्ध्वस्था.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org