SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ ७३२ व्याश्रयमहाकाव्ये [कर्णराजः] मेवेत्यर्थः । अत एव यैराजौ रणे क्रीडा रेणकेलिरकामि च वाञ्छितारामि च युद्धेनाजौ क्रीडितं च रणे निव्यूढ मित्यर्थः । तान् गजान्स कोविरामको दर्शनादनिवर्तमानः सन्नपश्यद्यतो जयश्रीकामुकः ।। व्यायामच्छेदकामेन तेनागामि लतागृहे । दृष्टा चागामुका श्रीर्नु काप्यायामकचक्षुपा ॥ १३४ ॥ १३४. तेन कर्णन लतागृहेगामि गतं यतो व्यायामच्छेदकामेन खेदापनोदेच्छुना। तत्र च कापि नायिका श्रीर्नु रूपाद्यतिशयेन लक्ष्मीरिवागामुकागच्छन्ती तेन दृष्टा च। कीदृशा सता । आयामके तदर्शनाद्विशेषेण दीर्धीभवन्ती चक्षुषी यस्य तेन ॥ नानाम्यायामि हाम्भोवाम्याचामि सुधेव च । उन्नामिकाभ्रवस्तस्य दृशा निर्नामपक्ष्मणा ॥ १३५ ॥ १३५. तस्य कर्णस्य दृशाक्ष्णा नानामि न नीचैर्भूतम् । कीदृशस्य सतः । उन्नामिके अद्भुतरूपदर्शनेन विस्मरत्वादुन्नमन्त्यावूर्वीभवन्त्यौ ध्रुवौ यस्य तस्य । यतः किंभूतया । रूपदर्शनभङ्गभयान्निर्नामानि निर्नमनानि निमीलनरहितानीत्यर्थः । पक्ष्माणि यस्यास्ति॑या । किं त्वायामि दीर्घाभूतम् । तथा हर्षाम्भं आनन्दाचँ । अवामि च क्षरितं च यतः सुधेवाचामि सुखैदरूपावलोकनेनामृतमिवास्वादितम् ॥ १ बी च्छेदिका . २ ए लगागृ. ३ ए डी दृष्ट्वा चा. १ ए त्यथो ए. २ सी डी रणे के'. ३ ई रिकका. ४ ए कौवि'. ५ बी के उद्भु. ६ ए प्रत्यादुन्नमत्यावू. ७ बी सी डी स्तथा । किं. ८ ई किं त्वया'. ९ई भयान'. १० सी डी श्रु । आचामि. ११ ए क्षरतं. १२ ए °खलरू. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy