________________
[है०४.३.५६.] नवमः सर्गः।
वामाचामं सुधाचामकानां मेने चमं नृपः ।
पुलकोद्वामको दृष्ट्या तस्या लावण्यचामतः ॥ १३६ ॥ १३६. पुलकोद्वामको रोमाञ्चोझेदवान्नृपः कर्णः सुधाचामकानाममृतास्वादकानां देवानां चमं चम्यते चमः कर्मणि घन् । भक्ष्यं सुधां वामाचामं प्रतिकूलजेमनं मेने । कस्मात् । तस्या नायिकाया दृष्ट्या दर्शनेन कृत्वा लावण्यचामतः सौन्दर्यास्वादाद्धेतोः । तल्लावण्यमास्वाद्यामृतमवाहीलयदित्यर्थः ।
प्रजनाः । जन्य । अजनि । बध । वध्याः । अवधि । इत्यत्र “न जनवधः" [ ५४ ] इति ने वृद्धिः॥ ।
शम । अशर्मक । अशमि । इत्यत्र "मोकमि" [५५] इत्यादिना न वृद्धिः॥ कम्यादिवर्जनं किम् । कामेन । कार्मुकः । अकामि । व्यायाम । आयामक । आयामि । आरामे । अविरामकः । अरामि । निर्नाम । उन्नामिका । अनामि । आगामुकाँ । अगामि । वाम । उद्वामकः । अवामि । आचामम् । आचामकानाम् । आचामि ॥ आंचम इति किम् । चमम् ॥ अन्ये तु सामान्येन निषेधमिच्छन्ति । चामतः॥
यस्यां विश्रामकं चक्षुर्मनो विश्रमकं च मे । सा श्रीविश्रमभूः केयं कामविश्राममन्दिरम् ॥ १३७ ॥
१६
१ एनपकेः सु. २ ए भक्ष्य सु. ३ ई ततस्या. ४ ए वण्याचा. ५ ई तमिवा. ६ ए लअदि. ७ ए सी जना । ज. ८ ई अवधि. ९ ए न द्धि:. १० डी शमः । अ. ११ ए मका । अ. १२ ई त्यत्रामो . १३ ए "द्धिः ।। काम्या . १४ सी मुक । अ. १५ डी म । अया. १६ डी मि । अ. १७ बी का । आगा. १८ ए सी डी ई °मक। अ. १९ सी डी आचाम. २० सी मत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org