________________
[है.. ४.३.५४.] नवमः सर्गः।
७३१ अजांगारि । जजागार । इत्यत्र “जागुर्जिणवि" [ ५२ ] इति वृद्धिः ॥ दाय । शतं दायी। अदायि । इत्यत्र “आत ऐः कृऔ" [ ५३ ] इत्येत् ॥
किं जातिप्रजना जन्ययोग्या ब(व?)ध्या बे(व?)धोद्यतैः।
इतीभान्वीक्षितुं राजा छन्नोगात्सह वेत्रिणा ॥ १३१ ॥ १३१. इभान्वीक्षितुं वेत्रिणा सह राजा कर्णश्छन्नो वेषपरावर्तादिना गुप्तः सन्नगात् । कस्मादित्याह । किममी इभा जातौ भद्रजातौ प्रजनो जन्म येषां ते जातिप्रजनाः किं जात्यास्तथा किं जन्ययोग्याः संग्रामास्तिथा किं ब(व?)धोद्यतैबन्धनोद्यतै राजभिर्ब(?)ध्या आलानयितुं योग्याः किं सुलक्षणा इत्यर्थः । इति हेतोः ॥
यत्राजनि तदावासो गजव्यूहः स चावधि ।
तत्रारामेविशद्राजा शमदोशमकात्मनाम् ॥ १३२ ॥ १३२. स्पष्टः । किं तु अवधि बद्धः । अशमकात्मनां बलाचंवलेपेनाशाम्यतां द्विषां शमदो दर्पङ्गेनोपशमकः ।।
न जात्वशैमि यैर्यश्चाजी क्रीडाकाम्यरॉमि च ।
जयश्रीकामुकोपश्यन् गजान्सोविरामकः ॥ १३३ ॥ १३३. मदोत्कटत्वाद्यैर्गजैर्जातु कदाचिदपि नाशमि सदा कुपित
१ए बन्धोद्यतै । इतीभीन्वी'. २एगा सह. ३ बी चाबधि. ४ ए शम य. ५ ए रापि च. ६ ए तानाजानवि. ७ ई रामिकः,
१ ए जागरि. २ ए दायः । श. ३ सी यीत्य. ४ ए. कृन्नावित्येत् . ५ ए क्षित्री वे'. ६ ए णच्छन्नो. ७ बी थिा. ८ बी तैवन्ध ९ ए भिवृद्धा आ. १० ए हेतो ॥. ११ सी वलोपे. १२ ए दोदाभिङ्गे. ई दो दोभङ्गे. १३ डी भङ्गोप. १४ ए जैजातु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org