________________
७३०
व्याश्रयमहाकाव्ये
[कर्णराजः
न पटुं दक्षमाख्यत्किं त्वपपटत्पटुमाख्यत् । तथा तैमादिशञ्च । कथमित्याह । नागौ गजा मा जहलन् हलिं महेंद्धलं मा ग्रहीषुस्ततो मा चकलन् मा मिथः कलिं ग्रहीषुस्तस्माद्गच्छ नागान्तिके याहीति ॥
मा श्वयीत् । अजागरीः । मा शसीत् । अक्षणीः । मा ग्रहीत् । अस्यमीः । अहयीः । अकखीः । इत्यत्र "न श्वि" [ ४९ ] इत्यादिना वृद्धिर्न ॥ वकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । अमवीत् ॥
अभाजि । भाजयन् । इत्यत्र "णिति" [५० ] इति वृद्धिः ॥ अनायि । इत्यत्र "नामिनः" [५१ ] इत्यादिना वृद्धिः ॥ कलिहलिवर्जनान्नाम्नोपि । तेन अपीपटत् इत्यत्र वृद्धावन्त्यस्वरादिलोपे चासमानलोपित्वात्सन्वद्भावः सिद्धः ॥ कलिहलिवर्जनं किम् । मा चकलैन् । मा जहलन् ॥ अन्ये तु नाम्नो वृद्धिमनिच्छन्तोन्त्यस्वरस्योकारस्यैव णिचि लोपमिच्छन्तः समानलोपित्वात्सन्वद्भावप्रतिषेधेपपटदित्याहुः ॥
अजागारि यथा मार्गे जजागार तथा स ना ।
शतं दायीव दायार्थे यावन्नादाय्युपायनम् ॥ १३०॥ १३०. यावदुपायनं रत्नादिढौकनं तेन नादायि कर्णाय न दत्तं तावत्तेन यथा मार्गेजागायुपायनरक्षार्थमुद्यतं तथा तत्रावासेपि स ना जयकेशिनरो जजागार । यथा शतं द्रम्मादिशतं दायी दास्यन्नधमर्णो दायार्थे दानं दायो योर्थः कार्यं तस्मिञ् शतदानविषये जागति ॥ १ ए तवा स. २ ए सी डी दाव्युपा . बी °दायुपा.
१ ए °माक्षत्कि त्वपट° २ ए तमदिशश्च । क. ३ ई °गा राजा. ४ ई °हदलं. ५ ई °च्छन्नांगा. ६ ए नागीन्ति'. ७ ई ति ॥ नाव. ८ बी शशीत् . ९ डी अक्षीणः । मा. १० डीजxx नं किम्. ११ ई नानो १२ ए वन्त्यिस्व १३ ए लत् । मा. १४ ए °च्छत्योन्त्य. १५ ए य द. १६ ए °पि ना. १७ डी शते दा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org