SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] स्त्रैणः कण्ठः कलकान्तकामिभिश्चात्र निश्चितम् । जयशङ्खः स्वरापूर्णपतीपुष्पधन्वनः ॥ ८९॥ ८९. अन्न पुरे स्त्रीणामयं वैणः कलस्वरोपेतत्वात्कलो मधुरोत एव कान्तो मनोज्ञः कण्ठो गलकन्दलो निश्चितमवश्यं पुष्पधन्वनः कामस्य स्वरापूर्णः शब्दायमानो जयशङ्खो विजयहेतुः कम्बुः कामिभिः प्रतीतो ज्ञातः । अत्रत्यत्रीणां कलकण्ठत्वेन वं स्मरजितं दृष्ट्वा कामिभिः कल: स्त्रीकण्ठः शङ्खाकारत्वात्कामराजस्य शब्दायमानो जयशङ्खो निःसंशयं ज्ञात इत्यर्थः ॥ ___ कष्टुं कष्ट कष्टं कृतम् । स्त्रैणः कण्ठः कण्ठः कलः। कलिः प्रातः प्रातः पूत्करोति । कलान्तः कान्तामिभिः । आपूर्णप्रतीतः प्रतीतपुष्प । कामिभिश्चात्र निश्चितम्। कष्टुं कष्टम् । स्प्फुरितं स्फुटम् । इत्यन्त्र “शिटः प्रथम'[३५] इत्यादिना [वा] द्वित्वम् ॥ शिट इति किम् । पूत्करोति । शङ्खः ॥ प्रथमद्वितीयस्येति किम् । स्वर ॥ अनुनासिकादप्यादेशरूपात्केचिदिच्छन्ति। कृतञ्च्छन्नं छन्नञ्छन्नम् ॥ अत्रोच्चश्वसच्श्रवः पेयं षीरं क्षरति गौः सताम् । सतृषट्पदपातव्यं पङ्करुपण्डवन्मधु ॥ ९० ॥ ९०. अत्र पुरे सतां साधूनां गौर्वाणी उच्छश्वसच्श्रव:पेयमुच्श्वसन्ति सुखानुभवेन सोल्लासानि यानि श्रवांसि श्रोत्राणि तैः पेयं पातव्यं षीरं दुग्धं क्षरति परिणामसुन्दरत्वेनं मधुरत्वेन च स्रवतीव । १ बी सी डी कण्ठेन. २ भि: स्त्री. ३ डीष्टं कृ. ४ सी डी कल:. ५ सी डी त स्प्फु. ६ सी डी एफ 'नुभावे. ७ ए न च. ८ ए बी सीडी च श्रव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy