SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [है० १.३.३४. ] प्रथमः सर्गः । ५९ तथा हे सखि । इह मविहापि स्थाने मध्यस्तीत्येवंप्रकारेणात्र पुरे बाल्यमन्मना बालत्वादव्यक्तमधुरा वाग् वाणी कुमारीभिः प्रतन्यते विस्तार्यते । दध्ययत्रेत्यादि स्वप्रधानमेव वाक्यद्वयमपि । यद्वात्राकृतयवद्वित्वस्य वाक्यस्य “असकृत्संभ्रमे” [७. ४. ७२. ] इति संभ्रमे द्विरुक्तिः । ततो यवयोर्द्वत्वं वा । तदायमर्थः । हे सखि । अत्र प्रदेशे दध्ययस्त्यत्र प्रदेशे दध्यस्ति । एवं मध्वि मध्वित्येवं संभ्रमप्रकारेण ॥ दध्य्यन दध्यत्र । मध्विह मध्विह । इत्यत्र "ततोस्या:" [३४] इति वा द्वित्वम् ॥ तत इति किम् । बाल्य ॥ अस्या इति किम् । वाग्बाल्यमन्मना ॥ कष्टृक्कष्टं कृतञ्च्छन्नञ्छन्नं मे स्फुरितं स्फुटम् । कलिः प्रातः पूत्करोतीत्यत्र शङ्खध्वनिच्छलात् ॥ ८८ ॥ ८८. पत्तने हि किल देवसद्मसु प्रातःक्षणे धर्ममहाराजजागर्याकृतपुङ्खः सदा शङ्खो वाद्यते । तद्धनिमपह्नुत्यान्यदुत्प्रेक्ष्यते । अत्र पुरे प्रातः प्रभाते शङ्खध्वनिच्छलात्कलिः पापयुगं पूत्करोत्युंच्चैः कोकूयत इव । कथमित्याह । मे मम स्फुटं सर्वजगत्प्रकटं स्फुरितं विजृम्भितं सर्वलोकान्यायप्रवृत्तिलक्षणं छन्नं छन्नं गुप्तं गुप्तं कृतम् । प्रस्तावान्नयसद्मनानेन पुरेण तस्मात् कष्टं कष्टं दुःखं दुःखं ममास्तीति । यस्य हि वस्तु केनापि चौरादिना गोप्यते स तद्वियोगेन दुःखितः सन् पूत्करोति । अत्र चान्यायानां नाम्नोप्यभावेन कलिकालस्फुरितस्याज्ञायमानत्वादेवमपद्धतिः ॥ कष्टं कष्टं कृतञ्च्छन्नञ्छन्नमित्यत्र वीप्सायां कष्टच्छन्नयोर्द्विरुक्तिं कृत्वा प्रथमहिती त्वम् ॥ १ डी कृतच्छन्नन्छ.. १ सी डी बाल्यत्वा २ बी °तो वयो". Jain Education International • ३ सी डी त्युच्चकैः को. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy