________________
.
.
.
[है० १.३.३६.] प्रथमः सर्गः। यापि गौर्धेनुः साप्युच्श्वसच्श्रवसा तर्णकादिना लेां क्ष्षीरं क्षरतीत्युक्तिः। यथा पङ्करुटमण्डमम्भोजवनं सतृषः साभिलाषा ये षट्पदा भृङ्गास्तैः पातव्यं लेह्यं मधु मकरन्दं क्षरति । अस्यां चोपमायां भरतीति सामान्यपदं गवा स्त्रीलिङ्गेन पङ्करुटमण्डशब्देन नपुंसकेन च सह न भिद्यत इति सामान्यशब्दभेदाख्यदोषाभावः । उक्तं च । ।
सामान्यशब्दभेदःसोयं यत्रापरत्र शक्येत । योजयितुं नाभग्नं तत्सामान्याभिधायि पदम् ॥ इति ॥ कृतमत्स्स्यध्वजोत्सेकाः स्त्रियः प्स्साताप्सर श्रियः ।
अस्मिन् सद्यो मनो यूनां मनन्ति ख्यातविभ्रमाः ॥११॥ ९१. अस्मिन्पुरे स्त्रियः सद्यो दर्शनकाल एव यूनां मनो मनन्ति क्षोभयन्ति । यतः साताप्सरःश्रियो रूपलावण्याद्यतिशयेन ग्रस्तदेवागनारूपलावण्यादिलक्ष्मीकास्तों ख्याता अतिरामणीयकेन प्रसिद्धा विभ्रमा विलासा यासां ता अत एव कृतमत्स्यध्वजोत्सेका विहितकामोद्रेकाः ॥
उच्छश्वसच्श्रवः । सतृषट्पद पङ्करुपण्डवत् । मत्स्स्य उत्सेकाः । षीरं क्षरति । साताप्सरः । इत्यत्र “ततः शिटः' [३६] इति वा द्वित्वम् ॥ तत इति किम् । अस्मिन् सद्यः । शिट इति किम् । मनन्ति । ख्यात ॥
तपःकाश्य॑जुषां हर्षकृतां हिंस्रोपि दर्शनात् । धनुस्त्यागं करोत्यस्मिन्नवत्कार्सरोत्स्सवे ॥ ९२ ॥ ९२. अस्मिन् पुरे तपसा न तु रोरत्वादिना काश्य कृशत्वं जु१ सी डी ण्यादि. २ एफ था ता. ३ एफ °यकत्वेन. ४ बी सी डी ति द्वि.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org