SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ [ है० ४.१.८०.] अष्टमः सर्गः। सोषुपीत्यहिगणोनुतटं सास्वप्ति नक्रनिचयोपि च यस्य । पर्यसुप्यत यमेन नु नासोषुप्यत क्षणममूषुपदन्यः ॥ ८४ ॥ ८४. यस्य वहस्यानुतटं तटसमीपेहिगणः सोपुपीति निरुपद्रवत्वादत्यर्थं शेते । तथा नक्रनिचयोपि च सास्वप्ति । एतयोश्च मृत्युहेतुत्वादुत्प्रेक्ष्यते । यमेन न्वनुतट पर्यसुप्यत शयितम् । अत एवान्योहिनकेभ्य इतरो नरादिर्यस्यानुतटं क्षणं क्षणमात्रमपि नासोषुप्यत मृत्युभयेन नात्यर्थमशेत । तथान्यो नासूषुपन्न च कं चन स्वापयामास । सिन्धुराडसुषुपद्भयजीनो दुर्गमं यमजिनन्द्रिडविद्धः।। आशु विध्यति च विद्विप उग्रोरुज्यचा नु विचिता विचति स्म।।८५॥ ८५. सिन्धुराडसुषुपत्स्वापमकार्षीत् । कीदृक्सन् । दुर्गमं दुःखेन गम्यं यं वहमजिनन्नत्यजन्नत एव द्विडविद्धो द्विभिरविद्धः पराभवेनापीडितोत एव भयजीनो भयरहितः । तथोग्रोरुव्यचा नु यथा प्रचण्डो वृश्चिको विद्विषः पदादिघटनेन स्वशत्रून्कण्टकेनातर्कितमेव विध्यति तथायं विद्विष आश्वतर्कितं विध्यति च तीव्रप्रहारादिना पीडयति च । तथा विचिता । अत्र तॄन् । श्वस्तन्यास्ता वा। वञ्च यते वञ्चयिष्यते वा। विचति स्मच्छलितवान् । एतदुर्गबलेनायं स्वयं सुखेन तिष्ठति शत्रूश्च पराभवतीत्यर्थः ।। असोषुप्यत । सोषुपीति । असूषुपत् । पर्यसुप्यत । इत्यत्र "स्वपेर्यके च" [८० ] इति वृत् ॥ यङ्लुपि नेच्छन्त्यन्ये । सास्वप्ति ॥ घन्तादपि केचिदिच्छन्ति । असुषुपत् ॥ १ सी पी xxx ति निरु. २ ए °स्वस्ति न. १ ए मेव न्व. २ ए गम्य यं. ३ ए भवोना. ४ बी सी डी षः पादा. ५ सी बेनकण्ट'. ६ बी न् । स्वस्त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy