SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ६३६ न्याश्रयमहाकाव्ये [ भीमराजः ] सर्वतोपि हि सरांसि किमु प्रव्याय किं नु परिवीय नदौन्वा । किं तु सर्वसरितोपि परिव्याय स्थितो य उदकैः प्रतिभाति ॥८२॥ ८२. यो वह उदकैः कृत्वा प्रतिभाति मम मनसि प्रतिभासते । कीहक् । स्थितः । किं कृत्वा । हि स्फुटं सर्वतोपि सरांसि किमु प्रव्यायात्मनि प्रक्षेपात्संवृत्याच्छाद्य वा किं नु किं वा नदान्वौं । वा समुच्चये । वहांश्च परिवीय संवृत्य किं नु किं वा सर्वसरितोपि सर्वनदीश्व परिव्याय संवृत्य । अतिमात्रजलत्वात्कवेरित्याशङ्का ॥ इज्यते जलनिधिं किल संवीय स्थितः कलशभूः स मुधैव । उह्यते यदमुनैष न संव्यायेति यत्र नृभिरुच्यत उच्चैः॥ ८३॥ ८३. यत्र वहविषये नृभिरुच्चैरुच्यते । कथमित्याह । किलेल्यागमे । जलनिधि संवीय पानेन संवृत्य स्थित: स प्रसिद्धः कलशभूरगस्त्यो मुधैवेज्यते । अब्धिः पीतोनेनेत्यचिन्त्यवैभवतयाँ लोकैर्यदयं पूज्यते तन्निरर्थकमित्यर्थः । यद्यस्माद्धेतोरेष वहः संव्याय पानेन संवृत्यामुना कलशभुवा नोह्यते स्वात्मनि न धार्यते । वहेत्रापीतेब्धिः पीतोप्यपीत इति भावार्थ इति ॥ प्रव्याँय । इत्यत्र "व्यः" [ ७७ ] इति वृन्न ॥ संव्याय संवीय । परिव्याय परिवीय । इत्यत्र “संपरेर्वा" [७८ ] इति वा वृन्न ॥ इज्यते । उह्यते । उच्यते । अत्र “यजादिवचेः किति" [७९ ] इति वृत् ॥ १ बी सी डी किं तु प. २ ए °दान्वाः । किं. ३ ई किं नु स'. १ बी भासि म'. २ बी सी डी किं तु किं. ३ सी न्वा स. ४ बी सी डी किं तु किं. ५ ए निधिसं. ६ ई °या कै. ७ बी व्याज । इ. ८ सी वृत ॥ डी स्वृतः॥. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy