SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ भीमराजः ] अन्यभूमिपतिनाम सदा शिश्रावयिष्यत इहास्य न कैश्चित् । एक एव हि भवान्नृपतिः शुश्रावयिष्यत इदं स्म समग्रैः ॥ ६७ ॥ ६२८ ६७. इह पृथ्व्यामन्यभूमिपतिनाम सदा न कैश्चित्कैरपि नृपादिभिः शिश्रावयिष्यतेहयुत्वेनान्यनृपनाम्नोप्य सहिष्णुत्वादस्य न संभालयितुमिष्यते किं तु हे चेदिपते हि स्फुटमेक एव भवान्नृपतिरिदमस्य समयैः सर्वैः शुश्रावयिष्यते स्म । इदमिति भिन्नक्रमे । अस्येत्यस्य व्याप्यत्वेपि संबन्धविवक्षया षष्ठी । एतेनायं त्वन्नामापि न सहत इत्युक्तम् ॥ तैरनेन वसु दण्डपदे सिस्रावयिष्यत इलापतिवर्गैः । यैः किलोद्भटभुजैरभितो सुस्रावयिष्यत धनं धनदेन ||६८ || ६८. तैरिलापतिवर्गै राजौघैः कर्तृभिरनेन चेदिना हेतुकर्त्रा use दण्डस्थाने व द्रव्यं सिस्रावयिष्यते क्षारयितुमिष्यते । किलेति सत्ये । उद्भटभुजैर्वलिष्ठबाहुभिर्यैर्हेतुकर्तृभिरभितः सामस्त्येन धनदेन प्रयोज्यकर्त्रा धनमसुंस्रावयिष्यत भुंजाबलेन यैर्धनदोपि दण्डं जिघृक्षित इत्यर्थः । एतेनास्य कोशसंपदतिशयोक्तिः ॥ अस्य कोपकठिनं हृदयं दिद्रावयिष्वरिकुलं चटु वक्ति । भक्तिवाग्भिरमुना खलु नादुद्रावयिष्यत जनः पुनरन्यः ॥ ६९ ॥ ६९. अस्य चेदेः कोपकठिनं हृदयं दिद्रावयिषुः प्रसिसादयिष्वि १ ए सिम्राव बी सिश्राव १ एयुक्तेना. २ए सर्वैषुः श्रा° ३ डी राजोवैः ४ ए हेतुः क े. ५ ए बी 'लिष्ट'. ६ बी बाहूभि . ७ ए भियैहैतु. ८ ई 'मस्तेन. ९ बी सुश्राव १० सी डी भुजब. ११ ए घृक्षत. १२ ई 'नंदि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy